Enter your Email Address to subscribe to our newsletters

कानपुरम्, १५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य कानपुरजनपदे भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षेण स्वातन्त्र्य-दिवसस्य पूर्वसन्ध्यायां शुक्रवासरे मध्यरात्रौ ध्वजारोहणं कृत्वा स्वातन्त्र्योत्सवः आचरितः। महानगर-काङ्ग्रेससमितेः अध्यक्षः पवनगुप्तः अवदत् यत् देशस्य एकतां, अखण्डतां परस्परभ्रातृत्वं च संरक्षितुं काङ्ग्रेसजनाः सर्वप्रकारेण संघर्षं करिष्यन्ति।
महानगरकाङ्ग्रेससमितेः तत्त्वावधाने वार्डसमितेः चौक-साराफा इत्यस्याः पक्षतः देशे केवलं कानपुरनगरे प्रचलितस्य पारम्परिकस्य मध्यरात्रिध्वजारोहण-कार्यक्रमस्य अन्तर्गतं अशीतितमः स्वातन्त्र्यदिवससमारोहः आचरितः। मेस्टनमार्गे स्थिते सुभाषचन्द्र-बोसस्य प्रतिमास्थले महानगराध्यक्षः पवनगुप्तः मध्यरात्रौ ध्वजारोहणं कृतवान्। काङ्ग्रेसस्य अनुसारं स्वातन्त्र्यप्राप्तेः समयादेव कानपुरे एषा परम्परा निरन्तरं पाल्यते।
कार्यक्रमे स्वातन्त्र्यसङ्ग्रामसेनानीनां बलिदानिनां च वीरगाथाभिः सम्बद्धानि वक्तव्यानि प्रस्तुतानि। राष्ट्रगीतैः सह सांस्कृतिककार्यक्रमाः, आतिशबाजी सम्मानसमारोहश्च आयोजिताः।
पवनगुप्तः बलिदानिषु स्वातन्त्र्यसङ्ग्राम-सेनानीषु च नमनं कृत्वा अवदत् यत् देशस्य स्वातन्त्र्यार्थं पूर्वजैः संघर्षः कृतः तथा अनेके जनाः स्वबलिदानं दत्तवन्तः। सः अवदत् यत् अद्य देशे साम्प्रदायिकता, जातिवादः, अराजकता, महिलापीडनम्, बेरोजगारी, महङ्गता च इत्यादयः समस्याः सन्ति। कृषकाणां छात्राणां च पीडनस्य आरोपमपि तेन कृतः। सः अवदत् यत् देशस्य एकतां, अखण्डतां परस्परभ्रातृत्वं च संरक्षितुं काङ्ग्रेसजनाः संघर्षं करिष्यन्ति।
कार्यक्रमे शान्तनुदीक्षितः, सञ्जयत्रिवेदी, उमेशवर्मा, सन्तोषमिश्रः, सन्तोषपाठकः, मो. सिराजः, हाजीफहीमः, इमरानकुरैशी, सन्दीपशुक्लः, सञ्जीवदरियाबादी, नौशादआलमः, नरेशत्रिपाठी, मदनमोहन-शुक्लः, जियाउर्रहमानः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan