Enter your Email Address to subscribe to our newsletters


— कांवड़ियात्रिणोऽपि देशभक्तिं प्रति अवर्तन्त समर्पिताः, कांवड़यात्रायां बद्धः तिरंगध्वजः
वाराणसी,15 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे धर्मस्य राष्ट्रप्रेम्णश्च अद्भुतः सङ्गमः काश्याः वीथीषु द्रष्टुं प्राप्तः। बाबा श्रीकाशीविश्वनाथस्य जलाभिषेकाय काशीं प्राप्ताः कावडधारिणः भक्तिभावेन सह देशभक्तिभावनया अपि रंजिताः दृश्यन्ते स्म। अनवृतपादैः बोलबम, हरहरमहादेव तथा भारतमातायाः जय इति जयघोषं कुर्वन्तः बहुसङ्ख्याकाः कावडधारिणः कावडयात्रासु तिरङ्गं बद्ध्वा अथवा हस्तेषु राष्ट्रध्वजं गृहीत्वा गच्छन्तः आगच्छन्तश्च दृश्यन्ते स्म।
नगरस्य बाह्यप्रदेशेषु कावडधारिणां समूहाः देशभक्तिभावनया ओतप्रोतैः चलचित्रगीतैः सह आनन्देन नृत्यन्तः दृश्यन्ते स्म। अनेकैः कावडधारिभिः हस्तेषु तिरङ्गपट्टिकाः अपि धृताः आसन्। तेषां श्रद्धया राष्ट्रप्रेम्णा च काश्याः वीथयः स्वातन्त्र्यदिवसस्य उल्लासेन युक्ताः इव दृश्यन्ते स्म।
अन्यत्र स्वातन्त्र्यदिवसस्य अवसरे श्रीकाशीविश्वनाथधाम्नि अपि राष्ट्रभक्तेः विशेषा छटा द्रष्टुं प्राप्ता। बाबा श्रीकाशीविश्वनाथस्य पावनज्योतिर्लिङ्गस्य तिरङ्गश्रृङ्गारः कृतः। धामपरिसरे स्थापितायाः भारतमातुः प्रतिमायाः अपि तिरङ्गैः श्रृङ्गारः कृतः। मङ्गलारत्यनन्तरं मध्याह्ने भोगारत्याः समये भगवान् श्रीविश्वेश्वरस्य तिरङ्गस्वरूपे मनोहरं मध्याह्नभोगारतिदर्शनं भक्तानाम् आकर्षणस्य केन्द्रम् अभवत्।
केसरीश्वेतहरितवर्णीयैः पुष्पैः कृतविशेषश्रृङ्गारेण मन्दिरपरिसरे राष्ट्रध्वजस्य मनोहारी छटा प्रसृता। बाबायाः दर्शनाय प्राप्तेषु शिवभक्तेषु अस्य अद्भुतदृश्यस्य विषये विशेषः उत्साहः दृश्यते स्म।
स्वातन्त्र्यदिवसस्य अवसरे काशीविश्वनाथधाम्नि भक्तेः, श्रद्धायाः, राष्ट्रप्रेम्णश्च अयं अद्भुतः सङ्गमः श्रद्धालूनां कृते स्मरणीयः अभवत्।
-------------
Hindusthan Samachar / Dheeraj Maithani