मुख्यमंत्री धामी सर्वकारी आवासे कृतं ध्वजारोहणं, दापितं राष्ट्रियैकतायाः शपथवचनम्
देहरादूनम्,15 अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी ८०तमस्य स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे मुख्यमन्त्रिनिवासे ध्वजारोहणं कृत्वा राष्ट्रध्वजं तिरङ्गं प्रफुल्लितवान् तथा उपस्थितेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च राष्ट्रियैकतायाः शपथं कारित
मुख्यमंत्री पुष्कर सिंह धामी शपथ दिलाते हुए।


मुख्यमंत्री पुष्कर सिंह धामी मुख्यमंत्री आवास में  ध्वजारोहण करते हुए।


देहरादूनम्,15 अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी ८०तमस्य स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे मुख्यमन्त्रिनिवासे ध्वजारोहणं कृत्वा राष्ट्रध्वजं तिरङ्गं प्रफुल्लितवान् तथा उपस्थितेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च राष्ट्रियैकतायाः शपथं कारितवान्। ध्वजारोहणात् पूर्वं मुख्यमन्त्री उपस्थितैः अधिकारिभिः कर्मचारिभिश्च सह सामूहिकरूपेण ‘वन्दे मातरम्’ इति गीतस्य गायनम् अकरोत्।

अस्मिन् अवसरे मुख्यमन्त्री प्रदेशवासिभ्यः स्वातन्त्र्यदिवसस्य हार्दिकाः शुभकामनाः अयच्छत्। सः देशस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवन्तः स्वातन्त्र्यसङ्ग्रामसेनानीन् तथा मातृभारत्याः रक्षार्थं सर्वोच्चं बलिदानं दत्तवन्तः वीरसैनिकान् श्रद्धापूर्वकं नत्वा अभिवादनम् अकरोत्।

मुख्यमन्त्री अवदत् यत् अमरबलिदानिभिः यस्य सशक्तस्य, समृद्धस्य तथा आत्मनिर्भरस्य भारतस्य स्वप्नं दृष्टम् आसीत्, तस्य साकारकरणस्य दिशि प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशः तीव्रगत्या अग्रे वर्धते। विकसितभारतस्य सङ्कल्पं पूर्णं कर्तुं प्रत्येकं नागरिकं स्वस्वकार्य क्षेत्रे पूर्णनिष्ठया समर्पणभावेन च योगदानं दातव्यम्।

सः अवदत् यत् सामूहिकप्रयासैः जनसहभागितया च देशः विकासस्य नूतनान् शिखरान् प्राप्तुं शक्नोति। उत्तराखण्डस्य समग्रस्य, सन्तुलितस्य तथा सततविकासस्य कृते राज्यसर्वकारः पूर्णप्रतिबद्धतया कार्यं करोति। सर्वकारस्य प्रयासः अस्ति यत् विकासस्य लाभः प्रदेशस्य प्रत्येकस्मिन् क्षेत्रे प्रत्येकस्मै वर्गाय च प्राप्नुयात्।

मुख्यमन्त्री अवदत् यत् राज्यस्य विकासे सर्वेषां सहयोगेन सहभागितया च उत्तराखण्डं देशस्य श्रेष्ठराज्यं कर्तुं दिशि निरन्तरं कार्यं क्रियते। स्वातन्त्र्यदिवसः अस्मान् राष्ट्रं प्रति स्वकर्तव्यानां स्मरणं कारयति तथा देशस्य प्रदेशस्य च विकासे सक्रिययोगदानाय प्रेरणां ददाति।

Hindusthan Samachar / Dheeraj Maithani