राज्यपालेन मुख्यमन्त्रिणा च ‘देवभूमिसंवादः’ ‘द गवर्नर’ इति पुस्तकयोः विमोचनं कृतम्
— चिकित्साक्षेत्रे सैन्यसेवायां च उत्कृष्टयोगदानाय पञ्च अधिकारिणः सम्मानिताः देहरादूनम्, १५ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे लोकभवने स्वल्पाहारकार्यक्रमः आयोजितः। कार्यक्रमे राज्यपालः लेफ्टिनेन्ट-जनरल् गुरमीतसिंहः (सेवानिवृत्त
राज्यपाल और मुख्यमंत्री पुस्तक का विमोचन करते हुए


राज्यपाल और मुख्यमंत्री पुस्तक का विमोचन करते हुए।


राज्यपाल और मुख्यमंत्री पुस्तक का विमोचन करते हुए


— चिकित्साक्षेत्रे सैन्यसेवायां च उत्कृष्टयोगदानाय पञ्च अधिकारिणः सम्मानिताः

देहरादूनम्, १५ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे लोकभवने स्वल्पाहारकार्यक्रमः आयोजितः। कार्यक्रमे राज्यपालः लेफ्टिनेन्ट-जनरल् गुरमीतसिंहः (सेवानिवृत्तः), मुख्यमन्त्री पुष्करसिंहधामी च अन्यैः अनेकैः गणमान्यजनैः सह सहभागं कृतवन्तः।

अस्मिन् अवसरे राज्यपालेन मुख्यमन्त्रिणा च लोकभवन-उत्तराखण्डस्य अर्धवार्षिक-पत्रिका ‘देवभूमिसंवादः’ इत्यस्याः विमोचनं कृतम्। लोकभवनस्य सूचनापरिसरेण प्रकाशितायां पत्रिकायां राज्यपालस्य विभिन्नाः महत्त्वपूर्णाः कार्यक्रमाः सङ्कलिताः सन्ति।

कार्यक्रमे डॉ. शालिनीबहुगुणा, प्रो. (डॉ.) अरुणकुमारः रिया-कैन्तुरा च सज्जीकृतस्य ‘द गवर्नरः फ्रॉम कांस्टीट्यूशनल गार्जियन टू डेवलपमेंट इनेबलर’ इति पुस्तकस्यापि विमोचनं कृतम्। पुस्तकं राज्यपालपदस्य बहुआयामीभूमिकायै केन्द्रितम् अस्ति तथा उत्तराखण्डे संवैधानिकनेतृत्वस्य लोक-सेवायाश्च विशिष्टान् उदाहरणान् रेखाङ्कयति।

अस्मिन् अवसरे चिकित्सायाः सैन्यसेवायाश्च क्षेत्रयोः उत्कृष्टयोगदानाय पञ्च विशिष्टाः अधिकारिणः चिकित्सकाश्च सम्मानिताः। सम्मानितेषु मैक्स-चिकित्सालयस्य देहरादूनस्य हृदयरोग-विज्ञानविभागस्य निदेशकः डॉ. योगेन्द्रसिंहः, आर्मी रिसर्च एण्ड रेफरल्-चिकित्सालयस्य दिल्लीस्थस्य वरिष्ठपरामर्शदाता कर्नल् विकास-मारवाहः, उत्तराखण्ड-सब-एरियायाः कर्नल् आदित्यश्रीवास्तवः, बी.डी. पाण्डे राजकीयजिलाचिकित्सालयस्य नैनीतालस्य परामर्शदाता हृदयरोग-विशेषज्ञः डॉ. सुधांशुसिंहः तथा मिलिट्री--चिकित्सालयस्य देहरादूनस्य कमाण्डेन्ट् ब्रिगेडियर् प्रफुल्लमोहनः अन्तर्भूताः आसन्।

असम-रेजिमेण्ट्-केन्द्रं तथा मुख्यालयम् उत्तराखण्ड-सब-एरिया च प्रशंसनीय-सेवाभ्यः राज्यपालस्य प्रशस्तिपत्रेण सम्मानिते।

कार्यक्रमे पूर्वमुख्यमन्त्री डॉ. रमेशपोखरियालः ‘निशङ्कः’, मन्त्री-मण्डलस्य मन्त्रिणः डॉ. धनसिंहरावतः, सुबोध उनियालः, सांसदाः, विधायकाः, अन्ये गणमान्यजनाः वरिष्ठाः प्रशासनिक-अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan