सीमान्त-ज्योतिर्मठे माणाग्रामे च सोत्साहम् आचरितः ८०तमः स्वातन्त्र्यदिवसः
ज्योतिर्मठः, १५ अगस्तमासः (हि.स.)। भारत-चीनयोः सीमायाः अग्रिमेषु सैन्यचौकी इत्यादिषु, देशस्य प्रथमग्रामे माणाग्रामे, सीमान्तनगरे ज्योतिर्मठे च ८०तमः स्वातन्त्र्यदिवसः हर्षोल्लासेन देशभक्तिपूर्णे च वातावरणे आचरितः। नीति-माणाघाटीभि: सह भारत-तिब्बत-ची
माना गांव


ज्योतिर्मठः, १५ अगस्तमासः (हि.स.)। भारत-चीनयोः सीमायाः अग्रिमेषु सैन्यचौकी इत्यादिषु, देशस्य प्रथमग्रामे माणाग्रामे, सीमान्तनगरे ज्योतिर्मठे च ८०तमः स्वातन्त्र्यदिवसः हर्षोल्लासेन देशभक्तिपूर्णे च वातावरणे आचरितः। नीति-माणाघाटीभि: सह भारत-तिब्बत-चीनसीमासमीपस्थासु अग्रिमचौकीष्वपि सैनिकैः त्रिवर्णध्वजं आरोह्य स्वातन्त्र्य-दिवसः आचरितः।

देशस्य प्रथमग्रामे माणाग्रामे आईबैक्स-ब्रिगेड इत्यस्य सैनिकैः आईटीबीपी-संस्थायाः हिमवीरैश्च ग्रामवासिभिः सह त्रिवर्णध्वजयात्रा निष्कास्य स्वातन्त्र्यस्य उत्सवः आचरितः। अस्मिन् अवसरे ‘भारतमाता की जय’ इति घोषैः सीमान्तक्षेत्रं गुञ्जितम्।

सीमान्त-पैनखण्डायाः मुख्यालये ज्योतिर्मठे स्वातन्त्र्यदिवसस्य मुख्य-समारोहः आयोजितः। नगरस्य विद्यालयानां प्रभातयात्राया: अनन्तरं रविग्रामस्य क्रीडाङ्गणे सामूहिकमार्चपास्ट इत्यस्य भव्यः कार्यक्रमः आयोजितः। ध्वजारोहणस्य अनन्तरं नगर-पालिकाध्यक्षया देवेश्वरीशाह-महोदयया मार्चपास्ट इत्यस्य अभिवादनं स्वीकृतम्।

स्वातन्त्र्यदिवससमारोहस्य अन्तर्गतं स्थानीयगान्धीप्रांगणे मनोहारिणः स्पर्धा-त्मकाः सांस्कृतिककार्यक्रमाः अपि आयोजिताः। विद्यालयानां छात्रैः छात्राभिश्च देशभक्तिभावनया ओतप्रोताभिः प्रस्तुतिभिः स्वातन्त्र्यदिवससमारोहे उत्साहस्य उमङ्गस्य च वातावरणं निर्मितम्।

Hindusthan Samachar / Divya Ranjan