Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे ऐतिहासिके रक्तदुर्गे आयोजिते समारोहे प्रथमवारं ‘वन्दे मातरम्’ इति राष्ट्रगीतं गीतम्। ‘वन्दे मातरम्’ इति रचनायाः १५० वर्षाणां पूर्तेः उपलक्ष्ये अयं ऐतिहासिकः क्षणः दृष्टः।
अशीतितमे स्वातन्त्र्यदिवससमारोहस्य अवसरे प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे प्रथमवारं रक्तदुर्गस्य प्राचीरात् राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य पूर्णसंस्करणं वादितम्। राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य अनन्तरं राष्ट्रगानं ‘जन गण मन’ इति वादितम्।
प्रधानमन्त्री नरेन्द्रमोदी अनवरतं त्रयोदशमवारं ध्वजारोहणं कृतवान्। तदनन्तरं राष्ट्रगीतस्य, ततः राष्ट्रगानस्य च गायनम् अभवत्। राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य परम्परायाः १५० वर्षाणां पूर्तेः उपलक्ष्ये आयोजिते अस्मिन् भव्यसमारोहे लालदुर्गस्य प्राचीरस्य पुष्पसज्जायाः केन्द्रे राष्ट्रध्वजः आसीत् तथा तस्य उभयतः हिन्दीभाषायां ‘वन्दे मातरम्’ इति लिखितम् आसीत्।
/ अंशु गुप्ता