कोलकाताजलपौतस्थानके उन्नीतः 197 फीटमितः उन्नतः तिरंगध्वजः
कोलकाता, 14 अगस्तमासः (हि.स.)। ‘‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं श्यामा प्रसादमुखर्जीपोर्टप्राधिकरणेन नेताजी सुभाषडॉके इति स्थले षष्टिमिटर् उन्नते ध्वजस्तम्भे राष्ट्रियध्वजः आरोहितः। प्रायः १९७ पादम् उन्नतः अयं तिरङ्गः कोलकातानगरे स्थापितेषु उन्न
कोलकाता पोर्ट ट्रस्ट पर सबसे ऊंचा तिरंगा


कोलकाता, 14 अगस्तमासः (हि.स.)। ‘‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं श्यामा प्रसादमुखर्जीपोर्टप्राधिकरणेन नेताजी सुभाषडॉके इति स्थले षष्टिमिटर् उन्नते ध्वजस्तम्भे राष्ट्रियध्वजः आरोहितः। प्रायः १९७ पादम् उन्नतः अयं तिरङ्गः कोलकातानगरे स्थापितेषु उन्नततमेषु राष्ट्रियध्वजेषु अन्यतमः अस्ति।

पोर्टप्राधिकरणस्य एकेन वरिष्ठाधिकारिणा उक्तं यत् ध्वजस्तम्भे त्रिंशत्पाददीर्घः विंशतिपादविस्तीर्णश्च राष्ट्रियध्वजः स्थापितः अस्ति। अनेन ऐतिहासिके बन्दरगाहपरिसरे तिरङ्गः नूतनप्रमुखस्थलरूपेण उद्भूतः अस्ति। सः उक्तवान् यत् एषा पहल ‘हर घर तिरंगा’ इत्यस्य भावनानुरूपं राष्ट्रियगौरवस्य, एकतायाः, विकसितभारतस्य च प्रति सामूहिकप्रतिबद्धतां प्रदर्शयति।

अधिकारिणः अनुसारं ऐतिहासिकगोदीस्थलस्य उपरि लहरायमानः तिरङ्गः भारतस्य समुद्रीयविरासतायां राष्ट्रनिर्माणे च कोलकाताबन्दरगाहस्य दीर्घकालीनां भूमिकां प्रतीकरूपेण दर्शयति।

अयं ध्वजस्तम्भः स्थायिरूपेण स्थापितः अस्ति तथा च तस्य अनुमानितोपयोगकालः पञ्चविंशतिवर्षाणि अस्ति। अयं उच्चक्षमतायुक्तेन इस्पातेन निर्मितस्य विंशतिभुजाकारस्य ढाञ्चारूपेण सज्जीकृतः अस्ति। अस्य कृते प्रबलितसीमेण्टकङ्क्रीटस्य आधारः निर्मितः अस्ति। ध्वजः मोटरचालितद्विद्रमयुक्तया रज्जुयन्त्रव्यवस्थया आरोह्यते अवरोह्यते च।

कोलकाताबन्दरगाहः देशस्य प्राचीनतमेषु कार्यरतेषु नदीआधारितेषु प्रमुखबन्दरगाहेषु अन्यतमः अस्ति। अस्य औपचारिकसञ्चालनं १८७० तमे वर्षे प्रारब्धम्। नवीनः ध्वजः ऐतिहासिकस्य घण्टागृहस्य समीपे स्थापितः अस्ति। एतत् घण्टागृहं १८९९ तमे वर्षे निर्मितम् आसीत् तथा अत्र आगच्छद्भ्यः पोतभ्यः समयसूचनां प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति स्म।

नेताजी सुभाषडॉकः १९२८ तमे वर्षे ‘किङ्ग जॉर्ज डॉक’ इति नाम्ना प्रारब्धः। १९७३ तमे वर्षे अस्य नाम परिवर्त्य नेताजी सुभाषडॉक इति कृतम्। द्वितीयविश्वयुद्धस्य समये अपि अस्य गोदीस्थलस्य महत्त्वपूर्णा भूमिका आसीत्। चीनबर्माभारतक्षेत्रे सञ्चालितेषु सैन्याभियानेषु सैनिकानां सैन्योपकरणानां च आवागमनम् अत्र अभवत्।

वर्तमानसमये नेताजी सुभाषडॉके दश घाटस्थलानि सन्ति, येषु गुरुमालोत्तोलनाय विशेषघाटस्थलमपि सम्मिलितम् अस्ति। अत्र चत्वारि पात्रवाहकघाटस्थलानि, एकं द्रवमालघाटस्थलं तथा चत्वारि बहुउद्देश्यीयघाटस्थलानि सन्ति। तदतिरिक्तं द्वे बोयासुविधे तथा नौबन्धनसुविधे अपि स्तः। अस्य द्वयोः शुष्कगोद्योः उपयोगः गार्डनरीचशिपबिल्डर्सएण्डइञ्जिनियर्स इत्यनेन पोतानां मरम्मताय पुनर्निर्माणाय च क्रियते।

नेताजी सुभाषडॉकः अद्य प्रमुखं पात्रवाहककेन्द्रम् अस्ति, यत्र उत्तरभारतस्य पूर्वोत्तरभारतस्य च राज्येभ्यः तथा नेपालभूटानयोः इव स्थलरुद्धेभ्यः देशेभ्यः अपि मालवस्तूनाम् आवागमनं भवति।

Hindusthan Samachar / Dheeraj Maithani