Enter your Email Address to subscribe to our newsletters


पटना, 15 अगस्तमासः (हि.स.)।
बिहार लोक भवनस्य तथा कला एवं संस्कृति विभागस्य च संयुक्त तत्त्वावधानेन स्वातन्त्र्यदिवसस्य पावनावसरे बिहार लोक भवने ‘एकसन्ध्या हुतात्मनाम्’ इति कार्यक्रमस्य आयोजनम् अभवत्। कार्यक्रमे राज्यपालः सेवानिवृत्तः सैयद अता हसनैनः तथा मुख्यमन्त्री सम्राट् चौधरी उपस्थितौ भूत्वा देशस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवद्भ्यः वीरहुतात्मभ्यः स्वातन्त्र्यसेनानीभ्यश्च श्रद्धापूर्वकं नमनं कृतवन्तौ।
अस्मिन् अवसरे स्वसम्बोधने मुख्यमन्त्री अवदत् यत् देशे सर्वत्र असीतमः स्वातन्त्र्यदिवसः आचर्यते। राज्यपालस्य तत्त्वावधाने ‘एकसन्ध्या हुतात्मनाम्’ इति कार्यक्रमस्य आयोजनं कृतम् अस्ति। अस्मिन् कार्यक्रमे कर्नल् वी.पी. सिंहः तस्य दलं च विविधाः प्रस्तुतयः प्रदर्शयतः। राष्ट्ररक्षणे संलग्नानां वीराणां सम्मानं वयं सर्वे कुर्मः। देशस्य स्वातन्त्र्यं असंख्यराष्ट्रभक्तानां त्यागस्य संघर्षस्य बलिदानस्य च परिणामः अस्ति। हुतात्मनां बलिदानेन एव अद्य अस्माकं राष्ट्रं स्वतन्त्रं सुरक्षितं च वर्तते। स्वातन्त्र्यदिवसः अस्मान् वीरसन्ततीनां योगदानं स्मर्तुं राष्ट्रस्य एकतायाः अखण्डतायाः सार्वभौमत्वस्य च संरक्षणाय स्वसङ्कल्पं दृढीकर्तुं प्रेरयति।
सः अवदत् यत् स्वातन्त्र्यप्राप्तेः अनन्तरं गताष्टतिदशकेषु देशेन विविधेषु क्षेत्रेषु उल्लेखनीया प्रगतिः साधिता अस्ति। भारते शान्तिः वर्तते, परन्तु विश्वस्य अनेकभागेषु युद्धम् अशान्तिश्च दृश्यते। भारतं सम्पूर्णं विश्वं प्रति मानवतायाः शान्तेश्च सन्देशं प्रसारयति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे २०४७ तमवर्षपर्यन्तं विकसितभारतस्य निर्माणस्य तथा पूर्वमुख्यमन्त्रिणः नीतीशकुमारस्य समृद्धबिहारस्य च सङ्कल्पः स्वीकृतः अस्ति। एतं सङ्कल्पं पूर्णं कर्तुं वयं सर्वे मिलित्वा कार्यं करिष्यामः।
कार्यक्रमे कर्नल् वी.पी. सिंहः तस्य दलं च देशभक्तिगीतैः सांस्कृतिकप्रस्तुतिभिश्च स्वातन्त्र्यसङ्ग्रामस्य वीरहुतात्मभ्यः श्रद्धाञ्जलिं समर्पितवन्तः।