पूर्व मुख्यमंत्री एवं राज्यसभा सदस्य नीतीश कुमारो ध्वजारोहणं कृत्वा प्रदेशवासिभ्यो दत्तानि वर्धापनानि
पटना, 15 अगस्तमासः (हि.स.)। अशीतितमे स्वातन्त्र्यदिवसस्य पावने अवसरे जनता दल यूनाइटेड इति दलस्य राष्ट्रियाध्यक्षः, राज्यस्य पूर्वमुख्यमन्त्री तथा राज्यसभायाः सांसदः नीतिशकुमारः पटनानगरे स्थिते सप्त सर्क्युलर रोड इति स्थले स्वकीयस्य आवासे ध्वजारोह
पूर्व मुख्यमंत्री एवं राज्यसभा सांसद नीतीश कुमार ने ध्वजारोहण कर प्रदेशवासियों को दी बधाई


पूर्व मुख्यमंत्री एवं राज्यसभा सांसद नीतीश कुमार ने ध्वजारोहण कर प्रदेशवासियों को दी बधाई


पूर्व मुख्यमंत्री एवं राज्यसभा सांसद नीतीश कुमार ने ध्वजारोहण कर प्रदेशवासियों को दी बधाई


पटना, 15 अगस्तमासः (हि.स.)।

अशीतितमे स्वातन्त्र्यदिवसस्य पावने अवसरे जनता दल यूनाइटेड इति दलस्य राष्ट्रियाध्यक्षः, राज्यस्य पूर्वमुख्यमन्त्री तथा राज्यसभायाः सांसदः नीतिशकुमारः पटनानगरे स्थिते सप्त सर्क्युलर रोड इति स्थले स्वकीयस्य आवासे ध्वजारोहणं कृत्वा प्रदेशवासिभ्यः स्वातन्त्र्यदिवसस्य हार्दिकान् अभिनन्दनानि शुभकामनाश्च प्रदत्तवान्।

अस्मिन् अवसरे सः लोकतन्त्रं अधिकं सुदृढं कर्तुं तथा देशस्य एकताम्, अखण्डतां, सार्वभौमसत्तां च अक्षुण्णां स्थापयितुं सर्वान् आह्वानं कृतवान्।

कार्यक्रमे दलस्य कार्यकारी राष्ट्रियाध्यक्षः तथा राज्यसभायाः सांसदः सञ्जयकुमारझा, विधानपरिषदि सत्तारूढदलस्य मुख्यसचेतकः सञ्जयकुमारसिंहः उर्फ गान्धी, विधानपरिषदि सत्तारूढदलस्य उपनेता ललनसर्राफः सहितं दलस्य बहवः नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani