Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १६ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्व-सरमा रविवासरे पूर्वप्रधानमन्त्रिणः भारतरत्नस्य च अटलबिहारीवाजपेयी-महोदयस्य पुण्यतिथौ तं प्रति भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशितेन सन्देशेन वाजपेयी-महोदयं भारतीय-जनतापक्षस्य परमपूज्यं नेतारं महान् राष्ट्रनायकं च वर्णयित्वा तं श्रद्धापूर्वकं स्मृतवान्।
डॉ. सरमा अवदत् यत् राष्ट्रसेवां प्रति अटलबिहारीवाजपेयी-महोदयस्य अटूटा निष्ठा, समर्पणम्, दूरदर्शिनः नेतृत्वं लोकतान्त्रिकानि च मूल्यानि भारतीय-राजनीतेः इतिहासे अद्वितीयम् अध्यायं रचितवन्तः।
सः अवदत् यत् भारतीयराजनीतेः सर्वाधिकलोकप्रियेषु महान् नेतृषु च परि-गणितस्य वाजपेयी-महोदयस्य विचाराः, आदर्शाः देशभक्तिश्च सदैव देशहिते निष्ठापूर्वकं कार्यं कर्तुं प्रेरयिष्यन्ति।
मुख्यमन्त्री अवदत् यत् अटलबिहारी-वाजपेयी-महोदयस्य महान् आदर्शाः अमूल्यं योगदानं च युगानुयुगं प्रत्येकं स्वाभिमानिनं भारतीयं प्रेरयिष्यतः।
Hindusthan Samachar / Divya Ranjan