Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १६ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्वसरमा रविवासरे महान् आध्यात्मिक-गुरुः दार्शनिकश्च श्रीरामकृष्णपरमहंसस्य पुण्यतिथौ तं प्रति प्रगाढां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् मातुः काल्याः परम-भक्तः श्रीश्रीरामकृष्णपरमहंसः मानव-सेवया ईश्वरसेवां कर्तुं मूलमन्त्रं प्रदत्तवान्। तस्य आध्यात्मिकशिक्षाः जीवनदर्शनं च कोटिशः जनान् सत्यमार्गे, प्रेम्णि, सहानुभूतौ सेवायां च अग्रे गन्तुं निरन्तरं प्रेरयिष्यन्ति।
डॉ. सरमणा श्रीरामकृष्णपरमहंसस्य आध्यात्मिकयोगदानं स्मृत्वा तं प्रति स्वकीयं श्रद्धाभावं प्रकटितवान्।
Hindusthan Samachar / Divya Ranjan