अहं गर्वम् अनुभवामि यत् अहं 'बौद्धिकनक्सलवादी' अस्मि - पी. चिदम्बरम्
नवदिल्ली, १६ अगस्तमासः (हि.स.)। कांग्रेसनेता पी. चिदम्बरम् ह्यः प्रधान-मन्त्रिणा नरेन्द्रमोदिना रक्तदुर्गस्य प्राचीरात् ‘बौद्धिकनक्सलवादिभ्यः’ साव-धानतायै कृतस्य आह्वानस्य विषये अद्य व्यङ्ग्यं कृतवान्। सः अवदत् यत् तस्मै गर्वः अस्ति यत् सः ‘बौद्धिक
चिदंबरम का ट्वीट


नवदिल्ली, १६ अगस्तमासः (हि.स.)। कांग्रेसनेता पी. चिदम्बरम् ह्यः प्रधान-मन्त्रिणा नरेन्द्रमोदिना रक्तदुर्गस्य प्राचीरात् ‘बौद्धिकनक्सलवादिभ्यः’ साव-धानतायै कृतस्य आह्वानस्य विषये अद्य व्यङ्ग्यं कृतवान्। सः अवदत् यत् तस्मै गर्वः अस्ति यत् सः ‘बौद्धिकनक्सली’ अस्ति।

उल्लेखनीयमस्ति यत् ह्यः प्रधानमन्त्री रक्तदुर्गस्य प्राचीरात् अवदत् आसीत् यत् दशकेभ्यः सत्तायां स्थिताः एते बौद्धिकनक्सलवादिनः अधुना अवसरस्य अन्वेषणं कुर्वन्ति तथा च अराजकतायाः नूतनान् मार्गान् अन्वेष्टुं प्रयतन्ते। एते जनाः समाजं विपरीतम् मार्गं प्रति नेतुं विविधाः युक्तय: प्रयुञ्जते। सः अवदत् यत् देशः हिंसकनक्सलवादिनां निर्मूलने सफलः अभवत्, अधुना बौद्धिकनक्सल-वादिनः अभिज्ञाय तान् पृथक् कर्तुं तेषां प्रभावं च न्यूनीकर्तुं आवश्यकता अस्ति। चिदम्बरम् अद्य तस्यैव आह्वानस्य विषये व्यङ्ग्यं कुर्वन् एक्स-माध्यमे एतां टिप्पणीं कृतवान्।

Hindusthan Samachar / Divya Ranjan