Enter your Email Address to subscribe to our newsletters

रायपुरम्, १६ अगस्तमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः रविवासरे जशपुरजनपदस्य प्रवासे भविष्यति। निर्धारितकार्यक्रमानुसारं सः मध्याह्ने १२:३० वादने रायपुरस्य पचपेड़ीनाका-स्थिते निजीचिकित्सालये कर्करोग-चिकित्सा-एककस्य उद्घाटनं करिष्यति।
तदनन्तरं मुख्यमंत्रीः मध्याह्ने २:४० वादने रायपुरात् जशपुरजनपदस्य बगियास्थलं प्रति प्रस्थास्यति। जशपुरप्रवासस्य अवधौ मुख्यमंत्रीः विभिन्नेषु स्थानीयकार्यक्रमेषु सहभागं करिष्यति।
Hindusthan Samachar / Divya Ranjan