भारतस्य थलसेनाप्रमुखः जनरल धीरज सेठः अद्य अद्यारभ्य पञ्चानां दिनानां नेपालभ्रमणे
काठमांडूः, 16 अगस्तमासः (हि.स.)।भारतस्य थलसेनाध्यक्षस्य जनरल् धीरजसेठस्य पञ्चदिवसीयनेपालयात्रा अद्य आरभ्यते। सः नवदिल्लीतः सेनायाः विशेषविमानेन सायं प्रायः चतुर्वादने राजधानीं काठमाण्डूं सम्प्राप्स्यति। प्रधानमन्त्रिणः बालेंद्रशाहस्य सत्ताग्रहणानन
भारतीय थल सेनाध्यक्ष जनरल धीरज सेठ


काठमांडूः, 16 अगस्तमासः (हि.स.)।भारतस्य थलसेनाध्यक्षस्य जनरल् धीरजसेठस्य पञ्चदिवसीयनेपालयात्रा अद्य आरभ्यते। सः नवदिल्लीतः सेनायाः विशेषविमानेन सायं प्रायः चतुर्वादने राजधानीं काठमाण्डूं सम्प्राप्स्यति।

प्रधानमन्त्रिणः बालेंद्रशाहस्य सत्ताग्रहणानन्तरं नेपालस्य उच्चस्तरीययात्रायै आगम्यमानः जनरल् सेठः भारतस्य अद्यावधि सर्वाधिकवरिष्ठः सैन्याधिकारी अस्ति। तस्य यात्रायाः विशेषमहत्त्वं मन्यते। सः प्रधानमन्त्रिणा बालेंद्रशाहेन, नेपालीसेनायाः प्रधानसेनापतिना अशोकराजसिग्देलेन सह अन्यैः अधिकारिभिश्च मिलिष्यति। प्रधानमन्त्रिणः शाहस्य समीपे रक्षामन्त्रालयस्य अतिरिक्तदायित्वमपि अस्ति।

२०२६ तमस्य वर्षस्य जूनमासस्य त्रिंशत्तमे दिनाङ्के भारतीयथलसेनाध्यक्षपदं स्वीकृतवतः जनरल् सेठस्य कृते राष्ट्रपतिः रामचन्द्रपौडेलः सोमवासरे शीतलनिवासे आयोजिते विशेषसमारोहे नेपालीसेनायाः मानार्थमहारथी अर्थात् मानार्थसेनाध्यक्षस्य उपाधिं प्रदास्यति। भारतनेपालयोः परस्परं प्रधानसेनापतिभ्यः एतादृशोपाधिप्रदानस्य परम्परा प्रायः सप्तदशकप्राचीना अस्ति।

नेपालीसेनायाः मुख्यालयस्य जङ्गीअड्डायाः अनुसारम् एषा परम्परा १९५० तमवर्षात् अद्यावधि प्रवर्तमानाऽस्ति। नेपालस्य प्रधानसेनापतिः अशोकराजसिग्देलः अपि भारतीयसेनायाः मानार्थमहारथीपदवीं प्राप्तवान् अस्ति। २०२४ तमे वर्षे नवदिल्ल्यां स्थिते राष्ट्रपतिभवने आयोजिते विशेषसमारोहे राष्ट्रपतिना द्रौपदीमुर्मूवर्यया सिग्देलाय एषा उपाधिः प्रदत्ता आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani