कटिहारे स्वजीविका औद्योगिक प्रगतिश्च : युवभ्यः उद्घटितस्य विकासस्य नूतनं द्वारम्
कटिहारः, 16 अगस्तमासः (हि.स.)। प्रधानमन्त्रिणः मार्गदर्शनेन मुख्यमन्त्रिणः कुशलनेतृत्वेन च कटिहारजनपदः विकासस्य नूतनान् आयामान् प्रति निरन्तरम् अग्रसरः अस्ति। जनपदप्रशासनात् प्राप्तानां तथ्यानाम् अनुसारं जनपदे युवानां आर्थिकदुर्बलवर्गाणां च स्वरो
कटिहारे स्वजीविका औद्योगिक प्रगतिश्च : युवभ्यः उद्घटितस्य विकासस्य नूतनं द्वारम्


कटिहारः, 16 अगस्तमासः (हि.स.)।

प्रधानमन्त्रिणः मार्गदर्शनेन मुख्यमन्त्रिणः कुशलनेतृत्वेन च कटिहारजनपदः विकासस्य नूतनान् आयामान् प्रति निरन्तरम् अग्रसरः अस्ति। जनपदप्रशासनात् प्राप्तानां तथ्यानाम् अनुसारं जनपदे युवानां आर्थिकदुर्बलवर्गाणां च स्वरोज़गारेण सह संयोज्य आत्मनिर्भरान् कर्तुं व्यापकस्तरे रोजगारसृजनकार्यक्रमानां औद्योगिकसंरचनायाश्च सुदृढीकरणस्य कार्यं प्रभावीरूपेण क्रियते।

वित्तीयसहायता तथा स्वरोज़गारयोजनाः:

जनपदस्य युवानः नूतनान् उद्योगान् स्थापयितुं प्रेर्यन्ते। अस्य अन्तर्गतं वित्तीयवर्षे २०२५-२६ ‘स्वरोज़गारः उद्यमिताविकासश्च योजना’ इत्यस्य अन्तर्गतं समग्रतया २३१ लाभार्थिनः चयनिताः सन्ति। विभागेन चयनितेभ्यः एतेभ्यः लाभार्थिभ्यः प्रशिक्षणं प्रदास्यते। तैः सह आर्थिकरूपेण अनुदानितदरेण दशदशलक्षरूप्यकाणि यावत् वित्तीयसहायता अपि प्रदास्यते।

अतिरिक्तं दारिद्र्यरेखायाः अधः जीवनं यापयद्भ्यः परिवारेभ्यः स्वव्यवसायस्य प्रारम्भाय द्विलक्षरूप्यकाणि यावत् वित्तीयसहायतां प्रदातुं प्रावधानम् अस्ति। अस्याः योजनायाः अन्तर्गतं गतवर्षे कटिहारे २ सहस्र २१७ लाभार्थिनः चयनिताः, येषु १ सहस्र ७७१ लाभार्थिभ्यः प्रथमकिस्तरूपेण पञ्चाशत् पञ्चाशत् सहस्ररूप्यकाणां धनराशिः प्रत्यक्षलाभान्तरणस्य माध्यमेन प्रेष्यते।

सूक्ष्मलघूद्योगानां प्रोत्साहनम्:

सूक्ष्मलघुखाद्यप्रसंस्करणक्षेत्रेषु च प्राविधिकीं वित्तीयां विपणनसम्बद्धां च सहायतां प्रदातुं केन्द्रीयस्तरीयाः राज्यस्तरीयाश्च योजनाः सुचारुरूपेण क्रियान्विताः सन्ति। ‘प्रधानमन्त्री सूक्ष्मखाद्योद्योगोन्नयनयोजना’ इत्यस्य अन्तर्गतं १०८ लाभार्थिनः तथा ‘प्रधानमन्त्री रोजगारसृजनकार्यक्रम’ इत्यस्य अन्तर्गतं ३६ लाभार्थिनः चयनिताः सन्ति। एतेभ्यः उद्यमिभ्यः बैंकेभ्यः ऋणं अनुदानं च प्रदत्तम् अस्ति।

औद्योगिकनिवेशः प्रशिक्षणं च:

कटिहारे बृहदुद्योगपतिभ्यः निवेशकेभ्यश्च आकर्षणं प्रदातुं राज्यनिवेशप्रोत्साहनमण्डलस्य माध्यमेन प्रशासनिकसहयोगः, भूमिः आवश्यकसुविधाश्च प्राथमिकतया प्रदीयन्ते। सम्प्रति जनपदे प्रायः १२ तः १३ पर्यन्ताः औद्योगिकाः एककाः सक्रियतया कार्यं कुर्वन्ति, ये स्थानीयार्थव्यवस्थां सुदृढां कुर्वन्ति।

उद्यमिनः कुशलान् कर्तुं ‘रैम्प’ कार्यक्रमः सञ्चाल्यते, यस्य लक्ष्यं २ सहस्राधिकेभ्यः उद्यमिभ्यः गुणवत्तापूर्णं प्रशिक्षणं प्रदातुम् अस्ति। अस्मिन् स्वसहायतासमूहानां ‘जीविकादीदी’ इत्याख्याः महिलाः विशेषरूपेण सम्मिलिताः क्रियन्ते, येन ताः सूक्ष्मोद्योगान् प्रारब्धुं समर्थाः भवन्ति।

कृष्याधारितोद्योगेषु विशेषावधानम्:

जनपदस्योद्योगविभागः कृष्याधारितोद्योगानां, विशेषतः मखानस्य, जूटस्य, खाद्यप्रसंस्करणस्य च विपुलसम्भावनाः दृष्ट्वा कार्यं कुर्वन् अस्ति। एतेषु क्षेत्रेषु मूल्यवर्धनं तथा स्थानीयोत्पादानां राष्ट्रियस्तरे परिचितिं यथोचितं मूल्यं च प्राप्तुं प्रयासाः क्रियन्ते। तदतिरिक्तं ‘स्टार्टअप बिहार’ तथा ‘स्टार्टअप इण्डिया’ इत्यादीनां योजनानां माध्यमेन युवभ्यः नूतनान् व्यावसायिकविचारान् व्यवहारभूमौ स्थापयितुं अवसरः प्राप्यते।

Hindusthan Samachar / Dheeraj Maithani