जेएमसीद्वारा “जम्मू रन्स फॉर यूनिटी–स्वच्छ अमरनाथ यात्रायाः संकल्पः”इत्येषः कार्यक्रमः आयोजितः
जम्मूः, 16 अगस्तमासः (हि.स.)।जम्मू महानगरपालिकानिगमेन अद्य “जम्मू एकतायै धावनम्-स्वच्छामरनाथयात्रायाः सङ्कल्पः” इति कार्यक्रमस्य आयोजनं कृतम्। स्वास्थ्यसुदृढतायाः पर्यावरणस्वच्छतायाश्च विषये जागरूकतां वर्धयितुं प्रातःकाले बहुप्लाजातः प्रारब्धे अस्
जेएमसी ने “जम्मू रन्स फॉर यूनिटी–स्वच्छ अमरनाथ यात्रा का संकल्प” कार्यक्रम आयोजित किया


जम्मूः, 16 अगस्तमासः (हि.स.)।जम्मू महानगरपालिकानिगमेन अद्य “जम्मू एकतायै धावनम्-स्वच्छामरनाथयात्रायाः सङ्कल्पः” इति कार्यक्रमस्य आयोजनं कृतम्। स्वास्थ्यसुदृढतायाः पर्यावरणस्वच्छतायाश्च विषये जागरूकतां वर्धयितुं प्रातःकाले बहुप्लाजातः प्रारब्धे अस्मिन् धावनकार्यक्रमे ५ किलोमीटर् तथा १० किलोमीटर् इति द्वे श्रेण्यौ सम्मिलिते आस्ताम्। धावनं गोलमार्गेण अप्सरामार्गेण च गत्वा पुनः बहुप्लाजायां समापितम्। अस्मिन् कार्यक्रमे विभिन्नवयोवर्गीयैः जनैः बहुसंख्यया सहभागिता कृता तथा एकता, स्वच्छता, उत्तरदायिनागरिकतायाश्च भावनायाः प्रोत्साहनं कृतम्।

अस्मिन् कार्यक्रमे जम्मू-मण्डलस्य आयुक्तः रमेशकुमारः, जेएमसी आयुक्तः देवांशयादवः, यातायातस्य वरिष्ठपुलिसाधीक्षकः अमितभसीनः तथा स्थानीयनिवासिनः सहभागितां कृतवन्तः। सर्वैः सामूहिकउत्तरदायित्वस्य सन्देशः प्रदत्तः। कार्यक्रमस्य मुख्यसन्देशः स्वास्थ्यसुदृढता, परस्परभ्रातृत्वभावना तथा स्वच्छा उत्तरदायिनी च अमरनाथयात्रा इति आसीत्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani