राम नाम्नो व्यशनस्य अग्रे जगतः सर्वाःअपि रुचयः धूमिलाः - डॉ एलसी अनुरागी
महोबा, 16 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य महोबाजनपदे सन्तकबीरसत्सङ्गसमित्याः तत्त्वावधानेन रविवासरे कटखुलवासंस्थिते कबीराश्रमे सत्सङ्गस्य कबीरवन्दनायाश्च आयोजनं कृतम्। सत्सङ्गे श्रीरामनाम्नः महिमानं वर्णयन्तः दुःखदायकान् व्यसनान् परित्यज्य परमा
कबीर आश्रम में सत्संग कार्यक्रम


महोबा, 16 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य महोबाजनपदे सन्तकबीरसत्सङ्गसमित्याः तत्त्वावधानेन रविवासरे कटखुलवासंस्थिते कबीराश्रमे सत्सङ्गस्य कबीरवन्दनायाश्च आयोजनं कृतम्। सत्सङ्गे श्रीरामनाम्नः महिमानं वर्णयन्तः दुःखदायकान् व्यसनान् परित्यज्य परमात्मनः श्रीरामस्य अमृतस्वरूपं नामरसपानं कर्तुं जनानाम् आह्वानं कृतम्।

रविवासरे कबीराश्रमे सन्तकबीरसत्सङ्गसमित्या आयोजितस्य सत्सङ्गकार्यक्रमस्य शुभारम्भः सत्सङ्गसमितिप्रमुखेन साईडिग्रीमहाविद्यालयस्य प्राचार्येण डॉ. एल.सी. अनुरागिणा कृतः। तेन कबीरस्य प्रसिद्धस्य दोहस्य — “आन अमल सब त्यागि के, राम अमल जब खाय। जन कबीर भौजै भरम, और न कछू सुहाय॥” — व्याख्या कुर्वता उक्तं यत् अफीम, भाङ्ग, मदिरा, बीडीसिगरेट, तम्बाकू तथा अन्यानि सर्वाणि दुःखदायकव्यसनानि परित्यज्य यदा परमात्मनः श्रीरामस्य अमृतस्वरूपं नामरसपानं क्रियते, तदा सर्वविधम् अज्ञानं विनश्यति। भक्तिसुखरूपस्य रामनामरसस्य अतिरिक्तं ततः परं किमपि मनसि न रोचते। अतः जनैः सर्वविधानि व्यसनानि परित्यज्य रामनाम्नः अमृतरसं स्वीकर्तव्यम्। रामनामरसस्य पुरतः संसारस्य सर्वे स्वादाः नीरसाः एव भवन्ति।

कार्यक्रमे भजनगायकेन इन्द्रजीतेन “सीता राम दरस रस बरसे जैसे सावन की झड़ी” इति भक्तिभजनं प्रस्तुतम्। पण्डितेन आशारामतिवारिणा, रामआसरेसेनेन, रामेश्वरचौरसियेन, साध्व्या सुनीतया अनुरागिण्या च विविधभजनानि प्रस्तुतानि, येन सम्पूर्णं वातावरणं भक्तिमयं जातम्। कार्यक्रमस्य अन्ते उपस्थितेभ्यः प्रसादस्य वितरणं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani