Enter your Email Address to subscribe to our newsletters


मुख्यमन्त्री डॉ. यादवः क्रीडामन्त्री सारङ्गश्च विजेतृक्रीडकान् सम्मानयिष्यतः
भोपालम्, १६ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे आयोजिताया: राजा भोजः बहुवर्गीय-राष्ट्रीय-नौकायान-चैम्पियनशिप् इत्यस्याः तृतीयसंस्करणस्य अद्य रविवासरे प्रातः ११ वादने समापनं भविष्यति। अस्याः भव्यसमापनस्य पुरस्कारवितरण-समारोहस्य च कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः तथा क्रीडा-युवा-कल्याणमन्त्री विश्वासकैलाश-सारङ्गः सहभागं करिष्यतः।
जनसम्पर्काधिकारी दुर्गेशरायकवारः अवदत् यत् अपरलेक-बोट्-क्लब-स्थिते जलक्रीडाकेन्द्रे ११ अगस्तमासात् प्रचलितायाः अस्याः राष्ट्रीयप्रतियोगितायाः समापनसमारोहे विभिन्नेषु वर्गेषु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः विजेतृक्रीडकेभ्यः पुरस्काराः सम्मानश्च प्रदास्येते।
देशभरात् शताधिकाः राष्ट्रीय-अन्ताराष्ट्रिय-नौकायान-क्रीडकाः सहभागिनः
सः अवदत् यत् अस्यां राष्ट्रीय-प्रतियोगितायां देशस्य विभिन्नेभ्यः राज्येभ्यः शताधिकाः राष्ट्रीय-अन्ताराष्ट्रिय-स्तरीयाः नौकायान-क्रीडकाः सहभागं कृतवन्तः। प्रतियोगितायां क्रीडकानां प्रदर्शनस्य आधारेण राष्ट्रीय-क्रमाङ्कनं निर्धारितं भविष्यति। एतत् क्रमाङ्कनं क्रीडकानां कृते अग्रिमेषु अन्ताराष्ट्रियप्रतियोगितासु भारतस्य प्रतिनिधित्वस्य दिशि महत्त्वपूर्णं भविष्यति।
राष्ट्रियक्रमाङ्कनाय अभवत् प्रतिस्पर्धा
जनसम्पर्काधिकारिणः अनुसारं राजा भोजः बहुवर्गीय-राष्ट्रिय-नौकायान-चैम्पियनशिप इत्यस्यां क्रीडकाः विभिन्नेषु वर्गेषु स्वप्रतिभां क्षमतां च प्रदर्शितवन्तः। प्रतियोगितायाः अवधौ सम्पन्नासु स्पर्धासु क्रीडकानां प्रदर्शनस्य आधारेण तेषां राष्ट्रीयक्रमाङ्कनं निर्धारितं भविष्यति। उत्तमं क्रमाङ्कनं प्राप्तवद्भ्यः क्रीडकेभ्यः अग्रे राष्ट्रियदले स्थानं प्राप्तुं तथा अन्ताराष्ट्रियप्रतियोगितासु भारतस्य प्रतिनिधित्वं कर्तुं अवसराः सुदृढाः भविष्यन्ति।
राष्ट्रीयस्तरीयक्रीडकैः प्रदर्शिता प्रतिभा
११ अगस्तमासात् १६ अगस्तमासपर्यन्तम् आयोजिता इयं प्रतिष्ठिता राष्ट्रिय-नौकायान-प्रतियोगिता क्रीडकाणां राष्ट्रीयक्रमाङ्कनस्य दृष्ट्या महत्त्वपूर्णा अस्ति। विभिन्नेषु नौकायानवर्गेषु क्रीडकाः अपरलेक्-सरोवरस्य तरङ्गेषु उत्कृष्टं कौशलं, सन्तुलनं प्रतिस्पर्धात्मकक्षमतां च प्रदर्शितवन्तः।
भोपालस्य प्राकृतिकसरोवराणि नौका-यानम्, नौकाचालनम्, कायाकिङ्ग् तथा केनोइङ्ग् इत्यादीनां जलक्रीडानां कृते अनुकूलानि सन्ति। मध्यप्रदेश-राज्यजल-क्रीडा-अकादम्याः स्थापना वर्षे २००७ तमे अभवत्। अकादम्यां नौकायानस्य, नौकाचालनस्य, काया-किङ्ग्, केनोइङ्ग् तथा स्लालम-क्रीडायाः प्रशिक्षणसुविधाः उपलब्धाः सन्ति।
विजेतृक्रीडकाः सम्मानयिष्यन्ते
प्रतियोगितायाः समापनावसरे मुख्यमन्त्री डॉ. यादवः तथा क्रीडा-युवा-कल्याणमन्त्री सारङ्गः विजेतॄन् उत्कृष्टप्रदर्शनं कृतवतः च क्रीडकान् सम्मानयिष्यतः। अस्मिन् अवसरे क्रीडकानां प्रदर्शनस्य आधारेण तेभ्यः पुरस्काराः प्रदास्यन्ते।
मुख्यमन्त्री डॉ. यादवस्य नेतृत्वे क्रीडासु नूतनः विस्तारः
मुख्यमन्त्री डॉ. यादवस्य नेतृत्वे मध्यप्रदेशे क्रीडाप्रतिभाभ्यः राष्ट्रियम् अन्तर्राष्ट्रियं च मञ्चं प्रदातुं निरन्तरं प्रयत्नाः क्रियन्ते। अस्यैव क्रमे क्रीडा-युवा-कल्याणमन्त्री सारङ्गस्य मार्गदर्शने जलक्रीडासहितानां विभिन्नक्रीडानां कृते उत्तमप्रशिक्षणस्य, प्रतियोगितानां क्रीडामूलभूतसंरचनायाः च विकासे विशेषं बलं दीयते। राजा भोजः बहुवर्गीय-राष्ट्रीय-नौकायान-चैम्पियनशिप् इत्यस्य आयोजनम् अपि एतं क्रीडादृष्टिकोणम् अग्रे नयन् महत्त्वपूर्णः चरणः अस्ति। अस्य माध्यमेन भोपालस्य अपरलेक् देशस्य शीर्षस्थ-नौकायान-क्रीडकानां कृते महत्त्वपूर्णं प्रतिस्पर्धामञ्चं जातम् अस्ति तथा च मध्यप्रदेशे जलक्रीडाभ्यः नूतन: परिचय: प्राप्यते।
Hindusthan Samachar / Divya Ranjan