जीएसटी-आवेदनं पूरयितुं प्रथम स्थानं प्राप्तवद्व्यवसायी राजीवः सम्मानितः,अमिलत् 51 सहस्रं रूप्यकाणि
नवादा,16 अगस्तमासः (हि.स.)। नवादा जनपदे वस्तुसेवाकरस्य (जीएसटी) निक्षेपणे सर्वाधिकां धनराशिं प्रदत्तवन्तौ प्रसिद्धौ व्यवसाई आरडीए कन्स्ट्रक्शन सर्विसेज इत्यस्य निदेशकौ राजीव सिन्हा तथा दाऊद खान च प्रभारीमन्त्रिणा डॉ. सन्तोषकुमारसुमनेन जिलाधिकारीण
पुरस्कार लेते राजीव


नवादा,16 अगस्तमासः (हि.स.)।

नवादा जनपदे वस्तुसेवाकरस्य (जीएसटी) निक्षेपणे सर्वाधिकां धनराशिं प्रदत्तवन्तौ प्रसिद्धौ व्यवसाई आरडीए कन्स्ट्रक्शन सर्विसेज इत्यस्य निदेशकौ राजीव सिन्हा तथा दाऊद खान च प्रभारीमन्त्रिणा डॉ. सन्तोषकुमारसुमनेन जिलाधिकारीणा रविप्रकाशेन च सम्मानितौ। ताभ्यां ५१ सहस्ररूप्यकाणां धनादेशः अपि प्रदत्तः।

नवादा हरिश्चन्द्रक्रीडाङ्गणस्य प्राङ्गणे रविवासरे पूर्णतया जनसमाकीर्णे आयोज्यमाने कार्यक्रमे नवादा जनपदस्य प्रभारीमन्त्री डॉ. सन्तोषकुमारसुमनः अवदत् यत् व्यवसाई राजीव सिन्हा नवादा जनपदे सर्वाधिकां जीएसटीधनराशिं प्रदाय शासनस्य आर्थिकस्थितिं सुदृढां कृतवान्, अतः सः अभिनन्दनस्य पात्रम् अस्ति। मन्त्रिणा उक्तं यत् बिहारसर्वकारः जीएसटीकरस्य धनराशिं निष्ठापूर्वकं प्रदातृं राजीव सिन्हां सम्मानयन् तस्मै ५१ सहस्ररूप्यकाणां धनादेशमपि प्रददाति।

जिलाधिकारी रविप्रकाशः जनपदस्य व्यवसाइभ्यः निष्ठापूर्वकं करधनराशिं निक्षिप्य शासनस्य आर्थिकव्यवस्थां सुदृढां कर्तुं आह्वानं कृतवान्। राजीव सिन्हिना सह तस्य सहयोगी दाऊद खानः अपि पुरस्कारं गृहीतवान्। मन्त्री ५१ सहस्ररूप्यकाणां धनादेशेन सह पुष्पगुच्छं प्रदाय राजीव सिन्हां सम्मानितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani