Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १६ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयी-महोदयस्य समाधिस्थलं ‘सदैव अटल’ प्राप्तवान्। सः पूर्वप्रधानमन्त्रिणः वाजपेयी-महोदयस्य पुण्यतिथौ तं नत्वा श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्री मोदी एक्स-माध्यमे शब्दचित्रं प्रकाश्य लिखितवान्— ‘‘अद्य प्रातः ‘सदैव अटल’-स्थलं गत्वा अटलमहोदयं प्रति श्रद्धाञ्जलिम् अर्पितवान्। भारतस्य प्रगतौ तस्य भूमिका अद्वितीया अस्ति।’’
प्रधानमन्त्री मोदी पूर्वप्रकाशिते सन्देशे अवदत्— ‘‘सः असाधारणः राजनीतिज्ञः आसीत्। तस्य दूरदृष्टिः अद्वितीया आसीत् तथा च सः स्वजीवनं राष्ट्रसेवायै समर्पितवान्।’’ प्रधानमन्त्री अवदत् यत् वाजपेयी-महोदयस्य वचनैः प्रयासैश्च अनेकेषां वंशानां जनाः प्रेरिताः तथा च तस्य नेतृत्वेन देशः सुदृढः अभवत्।
वाजपेयी-महोदयस्य जन्म १९२४ तमस्य वर्षस्य दिसम्बरमासस्य २५ दिनाङ्के मध्यप्रदेशस्य ग्वालियरनगरे अभवत्। सः २०१८ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के नवदिल्ल्यां अन्तिमं श्वासम् अत्यजत्। सः प्रधानमन्त्रीपदं प्राप्तवान् भारतीयजनतापक्षस्य प्रथमः नेता आसीत्। प्रधानमन्त्री मोदी लिखितवान्— ‘‘अटलं तस्य पुण्यतिथौ स्मरामि। सः असाधारणः राजनीतिज्ञः आसीत्, यस्य दूरदृष्टिः अद्भुता आसीत्। सः स्वजीवनं अस्माकं राष्ट्रस्य सेवायै समर्पितवान्।’’ सः अवदत्— ‘‘सुशासनाय जनकल्याणाय च तस्य बलं सर्वदा अस्माकं मार्गदर्शनं करिष्यति।’’
भारतीयजनतापक्षेन अपि स्वस्य शिखरपुरुषस्य पूर्वाध्यक्षस्य च अटल-बिहारीवाजपेयी-महोदयस्य पुण्यस्मरणं कुर्वता एक्स-माध्यमे लिखितम्— ‘‘भारतीयराजनीतेः युगपुरुषाय, असंख्यभाजपाकार्यकर्तॄणां पथप्रदर्शकाय अस्माकं प्रेरणास्रोतसे च पूर्वप्रधानमन्त्रिणे भारतरत्नाय श्रद्धेयाय अटलबिहारीवाजपेयी-महोदयाय पुण्यतिथौ विनम्रा श्रद्धाञ्जलिः।’’
रक्षामन्त्री राजनाथसिंहः अवदत्— ‘‘वाजपेयी-महोदयः आजीवनं ‘राष्ट्रं प्रथमं, सदैव प्रथमम्’ इति भावनया कार्यं कृतवान्। तस्य कृते राजनीतेः मूलोद्देश्यं राष्ट्रहितं जनसेवा च आसीत्। तस्य नेतृत्वे भारतं सामरिकशक्तेः, आर्थिकविकासस्य आधारभूतसंरचनायाश्च क्षेत्रेषु नूतनानि उच्चशिखराणि प्राप्तवान्। सः देशं सुदृढं आत्मविश्वासयुक्तं च कर्तुं विकासाय नूतनां दिशां प्रदातुं च अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वूढवान्। तस्य व्यक्तित्वं, तस्य आदर्शाः राष्ट्रसेवायाः तस्य सङ्कल्पश्च सदैव अस्मान् सर्वान् प्रेरयिष्यति।’’
केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः एक्स-माध्यमे लिखितवान्— ‘‘पूर्वप्रधानमन्त्रिणे भाजपायाः संस्थापकाय भारतरत्नाय अटलबिहारीवाजपेयी-महोदयाय पुण्यतिथौ नमनं करोमि। अटल: अस्य देशस्य देशभक्तः राजनीतिज्ञः आसीत्, यः स्वजीवनस्य प्रत्येकं क्षणं देशसेवायै समर्पितवान्। एकतः सः परमाणुपरीक्षणेन कारगिलयुद्धेन च सम्पूर्णं विश्वं भारतस्य शक्त्या परिचितवान्, अपरतः तस्य मूल्याधारितराजनीत्या प्रथमवारम् अन्त्योदयस्य सुशासनस्य च परिकल्पना धरातले साकारिता। अटलजी-महोदयस्य विराट् व्यक्तित्वं नेतृत्वं च भाजपायाः प्रत्येकं कार्यकर्तारं राष्ट्रनिर्माणाय सदैव प्रेरयिष्यति।’’
Hindusthan Samachar / Divya Ranjan