लखनऊनगरे मुख्यमंत्रिणा योगिना आदित्यनाथेन अमिलत् स्वदेशी जागरण मंचस्य राष्ट्रिय सह संयोजको डॉ राजीव कुमारः
मुरादाबादम्, 16 अगस्तमासः (हि.स.)। लखनऊ। मुख्यमन्त्री योगी आदित्यनाथेन लखनऊनगरे स्वकीयावासे रविवासरे स्वदेशीजागरणमञ्चस्य प्रतिनिधिमण्डलेन सह मेलनं कृतम्। प्रतिनिधिमण्डलस्य नेतृत्वं मुरादाबादनिवासिना मञ्चस्य राष्ट्रियसहसंयोजकेन डॉ. राजीवकुमारेण कृतम
लखनऊ में मुख्यमंत्री योगी आदित्यनाथ काे मांग पत्र सौंपते  मुरादाबाद निवासी और स्वदेशी जागरण मंच के राष्ट्रीय सह-संयोजक डॉ राजीव कुमार


मुरादाबादम्, 16 अगस्तमासः (हि.स.)। लखनऊ। मुख्यमन्त्री योगी आदित्यनाथेन लखनऊनगरे स्वकीयावासे रविवासरे स्वदेशीजागरणमञ्चस्य प्रतिनिधिमण्डलेन सह मेलनं कृतम्। प्रतिनिधिमण्डलस्य नेतृत्वं मुरादाबादनिवासिना मञ्चस्य राष्ट्रियसहसंयोजकेन डॉ. राजीवकुमारेण कृतम्। अस्मिन् अवसरे प्रदेशे उद्यमितायाः स्वावलम्बनस्य च सम्बन्धिनीनां योजनानां विषये विस्तृततया वार्ता अभवत् तथा च मञ्चस्य पक्षतः सप्तसूत्रीयं मागपत्रं मुख्यमन्त्रिणे समर्पितम्।

मुख्यमन्त्रिणा योगी आदित्यनाथेन स्वदेशीजागरणमञ्चेन डिजिटलमाध्यमेन देशव्यापितरूपेण सञ्चाल्यमानस्य ‘मैं भी स्वदेशी समर्थक’ इति अभियानस्य पोस्टरमपि विमोचितम्।

डॉ. राजीवकुमारेण उक्तं यत् स्वदेशीजागरणमञ्चेन समर्पिते मागपत्रे मुख्यतया प्रदेशे उद्यमिताविकासाय स्वावलम्बनाय च सञ्चालितानां योजनानां नियमनार्थम् उद्यमितायोगस्य अथवा उद्यमितापरिषदः गठनम्, विश्वविद्यालयेषु महाविद्यालयेषु माध्यमिकविद्यालयेषु च स्वावलम्बनकेन्द्राणां स्थापनम्, स्थानीयैः लघुकुटीरोद्योगैः निर्मितानां स्थानीयानां उत्पादानां कृते स्वदेशीमेलानां आयोजनम्, अगस्तमासस्य २१ तमे दिने विश्वोद्यमितादिवसात् आरभ्य सर्वेषु शैक्षणिकसंस्थानेषु उद्यमिताप्रोत्साहनकार्यक्रमाणाम् आयोजनम्, सर्वकारीयविभागेषु स्वदेशीयानां स्थानीयानां च उत्पादानां क्रयस्य अनिवार्यीकरणम् तथा च नवीनानाम् उद्यमानाम् स्थापनां कुर्वतां युवानां समस्यासमाधानाय एकस्यैव पटलस्य स्थापना इत्यादयः विषयाः सम्मिलिताः सन्ति।मुख्यमन्त्रिणा प्रतिनिधिमण्डलस्य मागपत्रे उल्लिखितानां सर्वेषां विषयाणां विषये समुचितविचारं कर्तुम् आश्वासनं प्रदत्तम्।

Hindusthan Samachar / Dheeraj Maithani