Enter your Email Address to subscribe to our newsletters

पटना, 16 अगस्तमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरीः रविवासरे जमुईमण्डलस्य झाझाप्रखण्डे न्यू-बोड़वा-बसस्थानकस्य समीपे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य आदमकदप्रतिमायाः अनावरणम् अकरोत्। अस्मिन् अवसरे सः सरदारपटेलं श्रद्धापूर्वकं नत्वा अवदत् यत् तस्य दृढसङ्कल्पः, राष्ट्रभक्तिः तथा देशस्य एकतायाः अखण्डतायाश्च प्रति समर्पणं च सदैव देशवासिनां कृते प्रेरणास्रोतः भविष्यति।
मुख्यमन्त्री अवदत् यत् झाझायाः भूम्या सह तस्य विशेषः अनुरागः अस्ति तथा च अत्रत्येभ्यः जनैः सह तस्मै निरन्तरं स्नेहः प्रेम च प्राप्यते। सः अवदत् यत् देशस्य एकीकरणे सरदारवल्लभभाईपटेलस्य योगदानम् अतुलनीयम् अस्ति। तेन अखण्डभारतस्य स्वप्नं दृष्टम् आसीत् तथा च तस्य विचाराः आदर्शाश्च अद्यापि राष्ट्रनिर्माणस्य दिशि मार्गदर्शनं कुर्वन्ति।
सम्राटचौधरीः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी विकसितभारतस्य स्वप्नं दृष्टवान् तथा पूर्वमुख्यमन्त्री नितीशकुमारः समृद्धबिहारस्य स्वप्नं दृष्टवान्। एतेषां लक्ष्याणां पूर्तिः बिहारसर्वकारस्य प्राथमिकता अस्ति। राज्ये औद्योगिकविकासाय गतिं प्रदातुं विभिन्नेषु क्षेत्रेषु उद्योगानां स्थापनस्य कार्यम् आरब्धम् अस्ति।
मुख्यमन्त्री अवदत् यत् परिवहनव्यवस्थां सुदृढां कर्तुं राज्ये शताधिकानि नवीनानि बसस्थानकानि निर्मास्यन्ते। स्वास्थ्यसेवासु अपि निरन्तरं सुधारः क्रियते। सर्वकारस्य लक्ष्यं बिहारस्य जनान् स्वस्थान्, शिक्षितान् समृद्धांश्च कर्तुम् अस्ति। मण्डलीयचिकित्सालयाः सुदृढीक्रियन्ते तथा वर्तमानकाले तत्र षट्त्रिंशत्प्रकारकाणां शल्यक्रियाणां सुविधा उपलब्धा अस्ति।
सः अधिकारिभ्यः स्पष्टं निर्देशं दत्तवान् यत् यदि कश्चित् चिकित्सकः उचितकारणं विना रोगिणं अन्यत्र प्रेषयति, तर्हि तस्य उत्तरदायित्वं निश्चितं क्रियताम् तथा नियमानुसारं तस्मिन् कार्यवाही क्रियताम्। मुख्यमन्त्री अवदत् यत् लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य विचारधारां राष्ट्रनिर्माणस्य तस्य आदर्शांश्च अग्रे वर्धयितुं सर्वेषां कर्तव्यम् अस्ति।
कार्यक्रमे स्वास्थ्य मन्त्री निशान्तः तथा परिवहनमन्त्री दामोदरराउतः अपि सम्बोधनं कृतवन्तौ। अस्मिन् अवसरे लोकस्वास्थ्याभियन्त्रणमन्त्री तथा जमुईमण्डलस्य प्रभारीमन्त्री सञ्जयकुमारसिंहः, उद्योगमन्त्री तथा क्रीडामन्त्री श्रेयसीसिंहः, विधायकः रामानन्दमण्डलः इत्यादयः अन्ये जनप्रतिनिधयः उपस्थिताः आसन्।
कार्यक्रमे मुख्यमन्त्रिणः सचिवः सञ्जयकुमारसिंहः, मुंगेरप्रमण्डलस्य आयुक्तः प्रेमसिंहमीणा, मुंगेरक्षेत्रस्य पुलिस-उपमहानिरीक्षकः राकेशकुमारः, जिलाधिकारी नवीनः, पुलिसाधीक्षकः विश्वजीतदयालः इत्यादयः अन्ये वरिष्ठाधिकारिणः तथा च बहुसंख्यकाः सामान्यजनाः उपस्थिताः आसन्।---------
Hindusthan Samachar / Dheeraj Maithani