Enter your Email Address to subscribe to our newsletters


- पूर्वप्रधानमन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य २१ पादमितायाः अष्टधातुमूर्तेः अनावरणम्
चित्तौडगढ़म्, १६ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः काँग्रेसदलेन ‘वन्दे मातरम्’ गीतस्य अपमानं कृतमिति आरोपं कुर्वन् उक्तवान् यत् मतपेठिकायाः लाभस्य लोभेन काँग्रेसदलेन ‘वन्दे मातरम्’ गीतं विस्मृतम् आसीत्। तेन उक्तं यत् ‘वन्दे मातरम्’ गीतस्य १५०तमवर्षे प्रधानमन्त्री नरेन्द्रमोदी रक्तदुर्गस्य प्राचीरतः अस्य गीतस्य पुनः सम्मानं प्रतिष्ठापयितुं प्रयत्नं कृतवान्। तेन उक्तं यत् काँग्रेसदलस्य निर्लज्जतां पश्यन्तु कांग्रेसदलस्य मुख्यालये ‘वन्दे मातरम्’ गीतस्य गानं प्रचलितम् आसीत्। गानस्य मध्ये एव काँग्रेसनेत्री सोनियागान्धी काँग्रेसाध्यक्षं गानं स्थगयितुं कथितवती। वयं सर्वे दूरदर्शने एतत् पश्यन्तः आस्म। अष्टाशीतिवर्षाणाम् अनन्तरं बङ्किमबाबोः एतत् गीतं पुनः सम्मानं प्राप्नोति, एतदपि सोनियागान्ध्यै न रोचते।
अमितशाहः रविवासरे राजस्थानप्रवासस्य समये चित्तौडगढ़जनपदस्य निम्बाहेड़ानगरे पूर्वप्रधानमन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य २१ पादमितायाः अष्टधातुमूर्तेः अनावरणस्य अनन्तरम् आयोजितां जनसभां सम्बोधयन् एतत् उक्तवान्। तेन उक्तं यत् देशस्य १४० कोटिजनाः सोनियागान्धी इत्यस्याः एतत् कृत्यं पश्यन्ति। ‘वन्दे मातरम्’ गीतस्य अपमानं देशः कदापि न स्वीकरिष्यति। तेन उक्तं यत् यदि काँग्रेसदले किञ्चिदपि लज्जा अवशिष्टा अस्ति, तर्हि हस्तौ बद्ध्वा बङ्किमबाबोः अमरात्मनः तथा देशस्य जनतायाः च समीपे अस्य कृत्यस्य कृते क्षमायाचनां कुर्यात्।
केन्द्रीयगृहमन्त्री राष्ट्रगौरवं महाराणा-प्रतापं श्रद्धापूर्वकं नत्वा उक्तवान् यत् मेवाड़स्य एषा वीरभूमिः देशभक्तानां कृते काशीतः न्यूनतरा नास्ति। तेन उक्तं यत् अस्यां वीरभूमौ महाराणा-प्रतापस्य, वीरपूञ्जा-भीलस्य तथा सेठ-भामाशाहस्य राष्ट्रभक्त्या, धर्मभक्त्या, स्वराज्यं प्रति अनुरागेण च मुगलानां विजययात्रा अवरुद्धा आसीत्।
राजस्थाने जलसंकटस्य उल्लेखं कुर्वन् शाहः उक्तवान् यत् मुख्यमन्त्री भजनलालशर्मा त्रिभिः सन्धिभिः राजस्थानस्य अर्धभागस्य तृष्णां शमयितुं कार्यं कृतवान्। तेन उक्तं यत् यत्र यत्र जनतायाः आशीर्वादः भारतीयजनतापक्षाय प्राप्यते, तत्र तत्र पक्षः जनसेवायां प्रवर्तते। राजस्थाने पूर्वं केवलं ११ लक्षगृहेभ्यः एव नलद्वारा जलं प्राप्यते स्म। मातरः भगिन्यश्च शिरसि त्रीन् त्रीन् घटान् धृत्वा बहुदूरात् जलम् आनयन्ति स्म। प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य प्रेरणया प्रारब्धेन जलजीवन-अभियानेन अष्टवर्षेष्वेव राजस्थाने ६४ लक्षगृहेभ्यः जलं प्रापितम् अस्ति।
गृहमन्त्री उक्तवान् यत् पूर्वप्रधानमन्त्रिणः स्वर्गीय-अटल-बिहारी-वाजपेयी-महोदयस्य सम्पूर्णं जीवनं राष्ट्रप्रथमस्य भावनायै समर्पितम् आसीत्। सः बाल्यकालादेव राष्ट्रभक्तेः मार्गे प्रवृत्तः आसीत्। चत्वारिंशद्वर्षाणि यावत् विपक्षे स्थित्वा अपि, सर्वासु प्रतिकूलपरिस्थितिषु च राष्ट्रभक्तेः सिद्धान्तः एव तस्य जीवनस्य आधारः आसीत्। प्रधानमन्त्रीरूपेण तेन देशस्य विकासाय बहवः महत्त्वपूर्णाः निर्णयाः कृताः। सम्पूर्णविश्वस्य बलस्य सम्मुखे न नत्वा तेन पोखरणे परमाणुपरीक्षणं कृतम्। ग्रामान् मार्गैः संयोजयितुं कार्यं कृतम् तथा स्वर्णचतुष्कोणयोजनया राष्ट्रीयमार्गाणां विस्तारः कृतः। तेन उक्तं यत् अटलमहोदयः जनजातीयविकास-मन्त्रालयस्य निर्माणस्य महत्त्वपूर्णं कार्यमपि कृतवान्। अस्य परिणामः अस्ति यत् अद्य जनजातीयकुटुम्बस्य पुत्री श्रीमती द्रौपदीमुर्मू देशस्य राष्ट्रपतिः अस्ति।
अस्मिन् अवसरे मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् पूर्वप्रधानमन्त्री स्वर्गीयः अटल-बिहारी-वाजपेयी देशस्य महान् नेता आसीत्। तस्य कुशलनेतृत्वे द्वितीयं परमाणुपरीक्षणं तथा १९९९ तमे वर्षे कारगिलयुद्धे प्राप्तः विजयः च भारतस्य छविं सम्पूर्णविश्वे सुदृढां कृतवती। अस्याः गौरवशालिन्याः परम्परायाः अग्रे वर्धनं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी ‘ऑपरेशन-सिन्दूर’, शल्यप्रहारं तथा वायुप्रहारं च माध्यमीकृत्य भारतं स्वाभिमानिसशक्तराष्ट्ररूपेण विश्वमञ्चे प्रतिष्ठापितवान्। प्रधानमन्त्रिणः नरेन्द्र-मोदिनः वाजपेयी-महोदयस्य जन्मदिवसं २५ दिसम्बरदिनाङ्कं सुशासनदिवसरूपेण घोषितवान्। तेन उक्तं यत् केन्द्रीयगृहमन्त्री अमितशाहस्य सार्वजनिकजीवनं राष्ट्र-सेवायाः समर्पणस्य च प्रेरणादायकम् उदाहरणम् अस्ति। जम्मू-कश्मीरतः अनुच्छेदस्य ३७० इत्यस्य निरसनस्य तथा देशे नक्सलवादस्य समस्यायाः उन्मूलनस्य च तस्य भूमिका अत्यन्तं महत्त्वपूर्णा अभवत्। त्रयः नवीनाः आपराधिकाः विधयः प्रवर्तयित्वा तेन देशस्य आपराधिकन्यायव्यवस्थायां व्यापकः सुधारः कृतः। देशे प्रथमवारं गठितं सहकारिता-मन्त्रालयं तस्य नेतृत्वे सहकारिताक्षेत्रे समृद्धेः प्रेरणादायकां गाथां लिखति।
अस्य अवसरस्य समये केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः मुख्यमन्त्री भजनलालशर्मणः उपस्थितौ चित्तौडगढ़सहितेषु १५ जनपदेषु ५,६५९ कोटिरूप्यकाणां व्ययेन निर्मितानां ९४४ विकासकार्याणाम् उद्घाटनं शिलान्यासं च कृतवान्। सहैव १,५०० ग्रामेभ्यः जलजीवन-अभियानस्य अन्तर्गतं नलद्वारा जलसुविधायाः उपहारः प्रदत्तः। एतस्मात् पूर्वं शाहः सहकारिताविभागेन जनपद-प्रशासनेन च आयोजितां प्रदर्शिनीम् अवलोकितवान्। समारोहस्य अवसरे उपमुख्यमन्त्री डॉ. प्रेमचन्द्रबैरवा इत्यनेन सह अन्ये मन्त्रिणः, सांसदाः, विधायकाः, स्थानीयजनप्रतिनिधयः तथा बहुसंख्याकाः जनाः उपस्थिताः आसन्।
निम्बाहेड़ानगरे जे.के.सर्किल इत्यत्र स्थिते लघु-अटल-स्मारके स्थापितं वाजपेयी-महोदयस्य प्रतिमाबिम्बं प्रायः चतुर-सहस्रकिलोग्रामपरिमितया अष्टधातुना निर्मितम् अस्ति। तत् अष्टपादमिते उच्चे मञ्चे स्थापितम् अस्ति। जयपुरस्य शिल्पिभिः प्रतिमायाः निर्माणं कृतम्। स्मारके अन्यौ द्वौ मञ्चौ अपि निर्मितौ स्तः। तयोः एकस्मिन् वाजपेयी-महोदयस्य प्रधानमन्त्रीत्वकाले पोखरणे सम्पन्नस्य परमाणुपरीक्षणस्य दृश्यं प्रदर्शितम् अस्ति तथा अपरस्मिन् तस्य विभिन्नासु मुद्रासु भाषणं कुर्वतः चित्रणं कृतम् अस्ति।
Hindusthan Samachar / Divya Ranjan