Enter your Email Address to subscribe to our newsletters

कटिहारः, 16 अगस्तमासः (हि.स.)।श्रावणीपूर्णिमायाः अवसरे आजमनगरप्रखण्डस्य गोरखपुरपञ्चायतस्थिते प्रसिद्धे बाबा गोरखनाथधाम शिवमन्दिरे समागमिष्यमाणां विशालां जनसमूहं श्रद्धालूनां च स्वास्थ्यसुरक्षां दृष्ट्वा जिलाप्रशासनं पूर्णतया सज्जमस्ति। बारसोई अनुमण्डलदण्डाधिकारिणः निर्देशानुसारं आजमनगरस्वास्थ्यकेन्द्रेण मन्दिरपरिसरे विशेषचिकित्सादलस्य नियुक्तिः कृता अस्ति।
जिलस्य मनिहारीगङ्गाघाटात् पवित्रं गङ्गाजलं नीत्वा गोरखनाथधामं प्राप्नुवतां कांवडियात्रिकाणां श्रद्धालूनां च चिकित्सासुविधायै एषा व्यवस्था अगस्तमासस्य १६ दिनाङ्कस्य रात्रौ ०८ वादनतः १७ दिनाङ्कस्य प्रातः ०६ वादनपर्यन्तं तथा २३ दिनाङ्कस्य रात्रौ ०८ वादनतः २४ दिनाङ्कस्य प्रातः ०६ वादनपर्यन्तं प्रभाविता भविष्यति। अस्मिन् काले अत्र विशालः जनसमागमः भवति तथा च श्रद्धालवः रात्रौ विश्रामं कृत्वा सोमवासरे जलाभिषेकं कुर्वन्ति। अस्मिन् विशेषचिकित्सादले डॉ. जाहीद आलम, अशोककुमारः (मुख्यस्वास्थ्याधिकारी, निमौल) तथा कृष्णकुमारप्रजापतिः (जीएनएम, खुरियाल) नियुक्ताः सन्ति।
तदतिरिक्तं मन्दिरपरिसरे आकस्मिकपरिस्थितेः निवारणाय जीवनरक्षकौषधानां रुग्णवाहिकायाः च अनिवार्यरूपेण उपलब्धता सुनिश्चितीकृता अस्ति। तदर्थम् औषधिभण्डारपालाय जीवनरक्षकौषधीनां सह ब्लिचिङ्-पाउडरस्यापि आपूर्तिं कर्तुं तथा १०२ रुग्णवाहिकाकर्मचारिभ्यः सतर्कतया तत्पराः स्थातुं निर्देशः प्रदत्तः अस्ति।
Hindusthan Samachar / Dheeraj Maithani