Enter your Email Address to subscribe to our newsletters

चेंगलपट्टुः, १६ अगस्तमासः (हि.स.)। चेंगलपट्टु-मण्डलस्य कट्टाङ्कुलत्तूर-स्थिते एस.आर.एम.-विश्वविद्यालयस्य परिसरे आयोजिते द्वाविंशतितमे दीक्षान्तसमारोहे उपराष्ट्रपतिः सी.पी. राधाकृष्णन् छात्रेभ्यः उपाधीः प्रदत्तवान्। अस्मिन् अवसरे सः छात्रान् शिक्षया सह अनुशासनं, सदाचारं, उत्तरदायित्वस्य भावनां च विकसितुं तथा व्यक्तिगतसफलतया सह राष्ट्रस्य विकासे योगदानं दातुम् आहूतवान्।
समारोहं सम्बोधयन् उपराष्ट्रपतिः अवदत् यत् अद्य उपाधिं प्राप्नुवन्तः छात्राः विकसितभारतस्य लक्ष्यं प्राप्तुं शक्यते इत्यस्य प्रमाणम् सन्ति। सः अवदत् यत् दीक्षान्तसमारोहः केवलम् उपाधिप्राप्तेः अवसरः न, अपि तु छात्राणां अनुशासनस्य, कार्यशैल्याः, जीवनस्य प्रति समग्रदृष्टिकोणस्य च महत्त्वपूर्णं सोपानम् अपि अस्ति।
कोरोनामहामार्याः समये भारतस्य भूमिकायाः उल्लेखं कुर्वन् सी.पी. राधाकृष्णन् अवदत् यत् भारते निर्मितानि औषधानि विश्वस्य विभिन्नदेशान् प्रापितानि। महामारीकाले भारतस्य औषधिनिर्माणस्य चिकित्साक्षेत्रस्य च योगदानस्य अनेकैः देशैः प्रशंसा कृता। सः अवदत् यत् हालमेव केन्यादेशस्य संसदया अपि भारतं प्रति कृतज्ञता प्रकटिता। भारतं महामारीकाले न केवलं स्वनागरिकाणां आवश्यकताः पूरितवान्, अपि तु विभिन्नदेशेभ्यः आवश्यकाः औषधयः अपि उपलब्धाः कृतवान्।
सः अवदत् यत् भारतं विश्वस्य प्रमुखासु आर्थिकशक्तिषु द्रुतगत्या उद्भवति। आर्थिकदृष्ट्या चतुर्थस्थाने स्थितः भारतः शीघ्रमेव तृतीयस्थानस्य दिशि अग्रसरति। भविष्ये देशं विश्वस्य अग्रणी-आर्थिक-शक्तिरूपेण स्थापयितुं विभिन्नस्तरेषु प्रयत्नाः क्रियन्ते।
उपराष्ट्रपतिः अवदत् यत् २०१४ तमस्य वर्षस्य अनन्तरं देशे प्रौद्योगिकी-शिक्षासंस्थानानां, विश्व-विद्यालयानां, एम्स्-सदृशानां चिकित्सा-संस्थानानां च शैक्षणिकस्वास्थ्यक्षेत्रयोः आधारभूत-संरचनायाः विस्तारः अभवत्। देशस्य विकासे भविष्यस्य निर्माणे च यूनां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
सः छात्रान् अवदत् यत् ते स्वकीयव्यक्तिगतप्रगतेः सीमायां न तिष्ठन्तु, अपि तु देशस्य विकासे अपि सक्रियं योगदानं ददतु। सः अवदत् यत् पाठ्यक्रमस्य माध्यमेन प्राप्ता शिक्षा छात्रेभ्यः उपाधिं प्रदातुं शक्नोति, किन्तु जीवने उत्कृष्टतां प्राप्तुं शिक्षया सह अनुशासनम्, सदाचारः, उत्तरदायित्वस्य भावना च आवश्यका: सन्ति।
सी.पी. राधाकृष्णन् यूनः मद्यपानात् मादकद्रव्येभ्यश्च पूर्णतया दूरं स्थातुं परामर्शं दत्तवान्। सः अवदत् यत् महाविद्यालयीयछात्रेषु मादकद्रव्यसेवनसम्बद्धाः वार्ताः निरन्तरं समुपस्थीयन्ते। मादकद्रव्यसेवनं यूनां भविष्याय कस्यामपि प्रकारेण हितकरं नास्ति तथा च तेन स्वास्थ्ये जीवने च गम्भीरः प्रतिकूलः प्रभावः भवितुम् अर्हति।
सः छात्रान् सद्व्यवहारं सकारात्मकाभ्यासांश्च विकसितुं तथा उत्तरदायित्वेन स्वभविष्यस्य निर्माणं कर्तुम् आहूतवान्। तत्सह देशस्य विधानानां नियमानां च सम्मानं कुर्वद्भिः आचरणं कर्तुं परामर्शं दत्तवान्। सः अवदत् यत् युवानः स्वप्रतिभायाः उपयोगं समाजस्य प्रगतेः देशस्य विकासस्य च कृते कुर्वन्तु।
उपराष्ट्रपतिः दीक्षान्तसमारोहे सम्मिलितान् अभिभावकान् अपि अभिनन्दितवान्। सः अवदत् यत् छात्राणां शिक्षायां अद्य उपाधिप्राप्तौ च अभिभावकानां समर्थनस्य प्रोत्साहनस्य च महत्त्वपूर्णा भूमिका अस्ति। सः बालानां शिक्षायै अथकप्रयत्नं कुर्वतां अभिभावकानां प्रशंसाम् अकरोत्।
सः छात्रान् अवदत् यत् विश्वविद्यालयात् उपाधि-प्राप्तेन सह शिक्षणस्य प्रक्रिया समाप्ता न भवेत्। जीवनपर्यन्तं निरन्तरं शिक्षितुं स्वभावः विकसितव्यः। सः छात्रान् प्रतिदिनं न्यूनातिन्यूनम् एकघण्टां नवीनविषयाणां शिक्षणाय समर्पयितुम् आग्रहं कृतवान्।
उपराष्ट्रपतिः अवदत् यत् छात्राः नूतनान्वेषणेषु, उद्भवमानप्रौद्योगिकीषु अथवा व्यक्तिगतक्षमतानां विकासे इत्येतेषु विषयेषु कस्यचित् एकस्य विषये नियमितरूपेण अधीतुं शक्नुवन्ति। निरन्तरं नवीनसूचनाः प्राप्य स्वकौशलस्य विकासं कृत्वा ते परिवर्तमानविश्वस्य आव्हानानां कृते अधिकं सम्यक् सज्जाः भवितुं शक्नुवन्ति।
सः अवदत् यत् दीक्षान्तसमारोहे उपाधिं प्राप्तवन्तः छात्राः भविष्ये स्वप्रतिभायाः उपयोगं देशस्य विकासाय कुर्युः। भारतस्य प्रगतेः युवानां भूमिका निर्णायिका भविष्यति। सः छात्रान् व्यक्तिगतसफलतया सह समाजं राष्ट्रं च प्रति स्वकीयदायित्वानामपि बोधं कर्तुम् आहूतवान्।
अन्ते उपराष्ट्रपतिः दीक्षान्तसमारोहे उपस्थितेभ्यः सर्वेभ्यः धन्यवादान् ज्ञापयन् स्वीयं सम्बोधनं समाप्तवान्।
Hindusthan Samachar / Divya Ranjan