Enter your Email Address to subscribe to our newsletters

जयपुरम्, १६ अगस्तमासः (हि.स.)। लघुकाशीरूपे जयपुरनगरे रविवासरे वृद्धतीजमातुः राजकीयशोभायात्रा राजसीवैभवस्य, लोकसंस्कृतेः, नारीशक्तेश्च सङ्गमेन निर्गता। सिटी-पैलेस-भवनस्य जनानी-ड्योढीतः प्रारब्धा शोभायात्रा त्रिपोलिया-द्वारं, लघुचौपडं, गणगौरी-विपणं च अतिक्रम्य तालकटोरा-स्थितं पौण्ड्रिक-प्रांगणं प्राप्तवती। शोभायात्रायाः दर्शनार्थं परकोटस्य विपणिषु, प्रासादेषु, वातायनस्थलेषु, मार्गस्य उभयतः च बहुसंख्याकाः नगरवासिनः, श्रद्धालवः, देशीयाः विदेशीयाश्च पर्यटकाः समागताः। तीजमातुः जयघोषैः लोकगीतैश्च सम्पूर्णः परकोटः गुञ्जितः।
सिटी-पैलेस-भवनस्य जनानी-ड्योढी इत्यत्य पूर्वराजपरिवारस्य महिलासदस्यैः तीजमातुः पूजनार्चनं कृतम्। ततः माता प्रायः चतुःशत-किलोग्राम-भारयुक्तायां रजतपालक्यां विराजमाना राजकीय-लवाजमेन सह प्रस्थापिता। त्रिपोलिया-द्वारे पूर्वराजपरिवारस्य सदस्यः पद्मनाभसिंहः तीजमातुः आरार्तिकीम् अकरोत्। ततः सा राजकीयशोभायात्रा नगरभ्रमणाय प्रस्थिता। लघुचौपड इत्यत्र उपमुख्य-मन्त्रिणा पर्यटनमन्त्रिणा च दीयाकुमार्या जयपुरनगरस्य सांसदेन मञ्जुशर्मणा च तीजमातुः महाआरार्तिकी कृता।
राजकीयशोभायात्रायां राजस्थानस्य विभिन्नानाम् अञ्चलानां लोककलानां प्रदर्शनम् अभवत्। प्रायः पञ्चसप्तत्य-धिकशतं लोककलाकाराः कालबेलिया-नृत्यस्य, गैर-नृत्यस्य, कच्छीघोड़ी-नृत्यस्य, चरी-घूमर-नृत्यस्य, चङ्ग-ढप-वादनस्य, मांगणियार-गायनस्य, भपङ्ग-वादनस्य, रावणहत्था-वादनस्य, कठपुतली-प्रदर्शनस्य, बहुरूपिया-वेषस्य, मशक-वादनस्य च प्रस्तुतयः अकरोत्। अश्वैः उष्ट्रैश्च सुसज्जितेन राजकीयलवाजमेन शोभायात्रायाः भव्यता वर्धिता। जेल-बैण्ड् तथा आरएसी-बैण्ड् इत्यनयोः प्रस्तुतिभिः अपि वातावरणं रमणीयम् अभवत्।
अस्मिन् वर्षे राजकीयशोभायात्रायां नारीशक्तेः विशेषः प्रभावः दृश्यते स्म। शौर्यसेवा-सङ्गठनस्य खुशी नरुका इत्यस्याः नेतृत्वे बालिकानां समूहः उपमुख्यमन्त्रिण्याः दीयाकुमार्याः निमन्त्रणेन खड्गविद्यायाः प्रदर्शनम् अकरोत्। तीजोत्सवस्य मध्ये बालिकानां शौर्यप्रदर्शनेन राजस्थानस्य वीरपरम्परायाः महिलासशक्तीकरणस्य च सन्देशः प्रदत्तः।
शोभायात्रायाः समये ‘सिल्वर-मैन’ इति नाम्ना प्रसिद्धः मोहम्मद-जाफरी अपि आकर्षणस्य केन्द्रम् अभवत्। सः प्रायः सप्तविंशतिकिलोग्राम-भारयुक्तानि, प्रायः द्विकोटिरुप्यकाणां मूल्यस्य हीरक-मौक्तिकैः जटितानि रजताभरणानि धारयन् समागतः। बीकानेरात् आगतः सार्ध-त्रिफिट-दीर्घश्मश्रूयुक्तः रमेशव्यासः तस्य समूहश्च अपि जनानाम् आकर्षणस्य केन्द्रम् अभवताम्।
लघुचौपडानन्तरं शोभायात्रा गणगौरी-विपणं प्राप्तवती, यत्र जयपुरव्यापार-महासङ्घस्य पक्षतः तीजमातुः उपरि पुष्पवृष्टिः कृता। शोभायात्रायाः मार्गे विमानरहित-मानवरहित-विमानैः अर्थात् ड्रोन-यन्त्रैः अपि पुष्पवृष्टिः कृता। प्रासादानाम् अट्टालिकाभ्यः, हवेलीभ्यः, वातायनेभ्यश्च जनैः पालक्याः दर्शनं कृतम्। ततः शोभायात्रा तालकटोरा-स्थितं पौण्ड्रिक-पार्कं प्राप्तवती, यत्र कलामेलापकस्य लोककलाकाराणां च प्रस्तुतयः अभवन्।
तीजोत्सवः अङ्कीयमाध्यमेन अपि व्यापकस्तरेण सम्बद्धः कृतः। नगरस्य त्रयोदश प्रमुखस्थलेषु एलईडी-पटलानि स्थापयित्वा राजकीयशोभायात्रायाः प्रत्यक्षप्रसारणं कृतम्। राजस्थान-एसोसिएशन-ऑफ-नॉर्थ-अमेरिका-संस्थायाः अङ्कीयमाध्यमेन उत्तर-अमेरिकादेशे निवसद्भ्यः प्रवासी-राजस्थानीयेभ्यः अपि राजकीय-शोभायात्रायाः प्रत्यक्षप्रसारणं प्रापितम्। पर्यटनविभागस्य सामाजिक-माध्यम-मञ्चेषु अपि प्रत्यक्षप्रसारणं कृतम्। दिल्लीतः आगतैः सामाजिकमाध्यम-सर्जकैः अपि जयपुरस्य तीजोत्सवः स्वेषु अङ्कीयमञ्चेषु प्रसारितः।
पर्यटनविभागस्य उपनिदेशकः उपेन्द्रसिंह-शेखावतः अवदत् यत् तीजमातुः राजकीयशोभायात्रा जयपुरस्य जीविता सांस्कृतिकपरम्परा अस्ति, यस्यां श्रद्धया सह लोककला, सङ्गीतम्, शौर्यं, राजसीपरम्परा च एकत्र दृश्यन्ते। अङ्कीयमाध्यमस्य माध्यमेन एतां परम्परां देशविदेशेषु निवसद्भ्यः राजस्थानिभ्यः प्रापयितुं प्रयासः कृतः।
राजकीयशोभायात्रायाः समये त्रिपोलिया-विपणे अवरोधकानि अपसार्य कांवड-यात्रिणां सुगमागमनस्य व्यवस्था अपि कृता। लोकगीतैः, राजकीयलवाजमेन, तीजमातुः जयघोषैः, लोककलाकाराणां प्रस्तुतिभिश्च सह निर्गता शोभायात्रा जयपुरस्य सांस्कृतिकपरम्परां पुनरेकवारं जीवन्तीं कृतवती।
Hindusthan Samachar / Divya Ranjan