सहजः सरलश्च, किन्तु सङ्कल्पेषु ‘अटलः’ आसीत् पूर्वप्रधानमन्त्री - मुख्यमन्त्री योगी
पूर्वप्रधानमन्त्रिणः भारतरत्नस्य अटल-बिहारी-वाजपेयी-महोदयस्य अष्टम्यां पुण्यतिथौ तस्य प्रतिमायां पुष्पार्चनम् लखनऊम्, १६ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः ‘भारतरत्न’-सम्मानितस्य पूर्वप्रधान-मन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य अष्टम
योगी


पूर्वप्रधानमन्त्रिणः भारतरत्नस्य अटल-बिहारी-वाजपेयी-महोदयस्य अष्टम्यां पुण्यतिथौ तस्य प्रतिमायां पुष्पार्चनम्

लखनऊम्, १६ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः ‘भारतरत्न’-सम्मानितस्य पूर्वप्रधान-मन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य अष्टम्यां पुण्यतिथौ श्रद्धां निवेदयन् लोकभवने स्थितायां तस्य प्रतिमायां पुष्पाञ्जलिम् अर्पितवान्। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे पत्रकारैः सह वार्तालापे अवदत् यत् अटल-महोदयस्य षड्दशकपरिमितं सार्वजनिक-जीवनम् निर्विवादं निष्कलङ्कं च आसीत्। सः भारतीय-राजनीतेः अजातशत्रुरूपेण ‘राष्ट्रं सर्वोपरि’ इति भावनया निरन्तरं कार्यं कुर्वन् आसीत्। सार्वजनिकजीवनस्य प्रारम्भे सः डॉ. श्यामाप्रसादमुखर्जी-महोदयस्य नेतृत्वे कश्मीरे धारा-३७०-इत्यस्य स्थापनायाः विरोधे सत्याग्रहेण स्वस्य सार्वजनिक-जीवनस्य प्रारम्भं कृतवान्।

मुख्यमन्त्री योगी पत्रकारैः सह वार्तालापं कुर्वन् अवदत् यत् सांसदः, विदेशमन्त्री, प्रतिपक्षनेता, भारतीयजनसङ्घस्य भारतीयजनतापक्षस्य च राष्ट्रीयाध्यक्षः तथा प्रधानमन्त्री इत्यादिषु विविधेषु पदेषु स्थितेऽपि तस्य कृते सदैव ‘राष्ट्रं प्रथमम्’ इत्येव आसीत्। सः भाजपायाः सामान्यकार्यकर्तृपदात् आरभ्य राष्ट्रीया-ध्यक्षः, प्रतिपक्षनेता, सदननेता, प्रधानमन्त्री इत्यादिषु यत्किमपि पदं धृतवान्, तस्य जीवनस्य ध्येयं केवलं ‘राष्ट्रं प्रथमम्’ इत्येव आसीत्। यदा यदा आवश्यकता अभवत्, तदा तदा सः दलात् अधिकं देशं महत्त्वं दत्तवान्।

राष्ट्रस्य सुरक्षायां अटल-महोदयस्य योगदानम्

मुख्यमन्त्री अवदत् यत् यदा कांग्रेस-दलेन देशे आपत्कालः आरोपितः, तदा सः भारतीयजनसङ्घस्य जनता-पक्षे विलयं कृत्वा आपत्कालात् मुक्तेः आन्दोलने सक्रियतया भागं गृहीतवान्। १९६२, १९६५, १९७१ वर्षेषु सम्पन्नेषु युद्धेषु सः सर्वकारं कटघरा इत्यत्र स्थापयितुं स्थाने उत्तरदायीसांसदरूपेण सर्वकारस्य पार्श्वे स्थित्वा राष्ट्रस्य सुरक्षां सुदृढीकर्तुं स्वकीयम् योगदानं दत्तवान्।

योगी अवदत् यत् भारतीयराजनीतौ अस्थिरतायाः कालखण्डं निवारयितुं तथा च राजनैतिकस्थिरतया सुशासनस्य लक्ष्यं प्राप्तुं कथं पदानि स्वीकरणीयानि, इत्यस्य उदाहरणम् अटल-महोदयेन राजनैतिक-समन्वयस्य माध्यमेन १९९६-९८ वर्षयोः राष्ट्रियजनतान्त्रिक-गठबन्धनस्य निर्माणेन प्रस्तुतम्। तत् उदाहरणम् अद्यापि भारतीयराजनीतौ प्रासङ्गिकं वर्तते। एनडीए भारतीयजनतापक्षस्य नेतृत्वे सहयोगिदलैः सह मिलित्वा निरन्तरं देशे तथा राज्येषु विविधसर्वकारान् सञ्चालयन् सुशासनस्य लक्ष्याणि प्राप्तुं प्रयतते।

मुख्यमन्त्री अवदत् यत् अटलजी यून: सहजः सरलश्च आसीत्, तावानेव सङ्कल्पेषु ‘अटलः’ अपि आसीत्। कारगिलसङ्घर्षस्य समये विश्वेन अटल-महोदयस्य दृढसङ्कल्पस्य सामर्थ्यं स्वीकृतम्। तस्मिन् समये अटल: अवदत् यत् अस्मासु युद्धम् आरोपितम् अस्ति, यस्य वयं मुष्टिभिः प्रत्युत्तरं दास्यामः। विश्वस्य कस्यामपि शक्तेः पुरतः अनमतः अटल: भारतं परमाणुशक्तिसम्पन्न-राष्ट्ररूपेण प्रतिष्ठितवान्।

प्रधानमन्त्रिरूपेण अटल-महोदयेन यशस्वीशासनस्य सामर्थ्यं प्रदर्शितम्

योगी आदित्यनाथः अवदत् यत् अटल-महोदयाय प्रथमवारं १९५७ तमे वर्षे उत्तरप्रदेशस्य बलरामपुर-संसदीयक्षेत्रात् संसदं प्रवेष्टुम् अवसरः प्राप्तः। सः पञ्चवारं लखनऊ-संसदीयक्षेत्रस्य प्रतिनिधित्वं कृतवान्। प्रतिपक्षनेतृत्वे तथा प्रधानमन्त्री-रूपेण च सः यशस्वीशासनस्य सामर्थ्यं प्रदर्शितवान्। अद्य सम्पूर्णः देशः पूर्वप्रधानमन्त्रिणः स्मृतीः नत्वा तं श्रद्धया स्मरति।

अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, कृषिराज्यमन्त्री बलदेव-सिंहऔलखः, महापौरः सुषमाखर्कवालः, राज्यसभासांसदः ब्रजलालः, विधायकः नीरजबोरः, विधानपरिषदः सदस्यः अवनीशसिंहः, भाजपायाः महानगराध्यक्षः आनन्दद्विवेदी इत्यादयः अपि पूर्वप्रधान-मन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य प्रतिमायां पुष्पाणि समर्प्य श्रद्धाञ्जलिम् अर्पितवन्तः।

Hindusthan Samachar / Divya Ranjan