Enter your Email Address to subscribe to our newsletters


मुख्यमन्त्री योगी आदित्यनाथेन वीराङ्गनायाः रानी अवन्तीबाईलोधी इत्यस्याः १९६तम्यां जयन्त्यां प्रतिमायै पुष्पाञ्जलिः समर्पितः।
मुख्यमन्त्री योगी उक्तवान् यत् वीराङ्गनानां नाम्ना क्रियमाणानां कार्याणां पृष्ठे महिलानां सुरक्षायाः भाव एव मूलोद्देश्यम् अस्ति।
लखनऊ, १६ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन राजधानीलखनऊनगरे रविवासरे वीराङ्गनायाः रानी अवन्तीबाईलोधी इत्यस्याः जयन्त्यवसरे तस्याः प्रतिमायै पुष्पाञ्जलिः समर्पितः। मुख्यमन्त्रिणा तां भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य १८५७ तमस्य वर्षस्य महान् क्रान्तिकारिणीषु अन्यतमाम् इति वर्णितम्। तेन उक्तं यत् वीराङ्गनानां योगदानं, तपः, त्यागः बलिदानं च अस्मान् सर्वान् प्रेरयति।
मुख्यमन्त्रिणा उक्तं यत् अद्य तस्याः १९६तमा जयन्ती अस्ति। १८५७ तमे वर्षे सा केवलं २७ वर्षीया आसीत्। अल्पायसि एव तया स्वं स्वातन्त्र्यसङ्घर्षे बलिदानं दत्त्वा आदर्शः स्थापितः। स्वातन्त्र्यार्थं तस्याः बलिदानं युवजनानां कृते प्रेरणास्रोतः अस्ति।
वीराङ्गनायाः रानी अवन्तीबाई इत्यस्याः योगदानाय प्रत्येकः भारतवासी नतमस्तकः
मुख्यमन्त्री योगी आदित्यनाथेन उक्तं यत् वीराङ्गना रानी अवन्तीबाईलोधी भारतस्य स्वातन्त्र्यस्य तासु महानायिकासु अन्यतमा अस्ति, याभिः स्वजीवनं राष्ट्राय समर्पितम्। तया स्वातन्त्र्यार्थं सर्वस्वस्य समर्पणे किमपि न्यूनता न कृता। वीराङ्गनायाः रानी अवन्तीबाईलोध्याः नेतृत्वे आङ्ग्लशासकानां विरुद्धं देशस्य स्वातन्त्र्यार्थं युद्धं कृतम्। अद्यापि प्रत्येकं जनः महत्या श्रद्धया तस्याः स्मृतीः नमतः। तस्याः योगदानाय प्रत्येकः भारतवासी नतमस्तकः अस्ति।
त्रिषु महिला पीएसी दलषु वीराङ्गनानां अश्वारूढप्रतिमाः स्थाप्यन्ते
मुख्यमन्त्री योगी उक्तवान् यत् वीराङ्गना रानी अवन्तीबाईलोध्याः आदर्शः उत्तरप्रदेशाय प्रेरणास्रोतः भवेत्, अस्य उद्देश्येन अस्माकं सर्वकारेण उत्तरप्रदेशस्य पीएसी इत्यस्य त्रयाणां नवीनमहिलादलानां गठनकार्यं प्रवर्धितम् तथा च एतेषां नामकरणं गठनं च वीराङ्गनानां नाम्ना कृतम्। बदायूंनगरे रानी अवन्तीबाईलोधी इत्यस्याः नाम्ना पीएसी इत्यस्य नूतनवाहिन्याः गठनं कृतम्। एतत् कार्यं प्रायः पूर्णतां प्राप्तम् अस्ति। तत्र वीराङ्गनायाः रानी अवन्तीबाई इत्यस्याः अश्वारूढप्रतिमायाः स्थापनायाः कार्यमपि अन्तिमचरणं प्रति अग्रसरति।
लखनऊ नगरे वीराङ्गना ऊदादेवीपासी इत्यस्याः नाम्ना गठितस्य महिला पीएसी दलस्य कार्यमपि युद्धस्तरेन अग्रे वर्धितम् अस्ति। गोरखपुरे वीराङ्गना झलकारीबाईकोरी इत्यस्याः नाम्ना पीएसी इत्यस्य नूतनदलस्य कार्यं तीव्रगत्या प्रचलति। एतयोः द्वयोः दलयोः अपि वीराङ्गनानां अश्वारूढप्रतिमानां स्थापनायाः कार्यं प्रगतिपथे अस्ति।
पुत्र्याः सुरक्षायै सम्मानाय स्वावलम्बनाय च सर्वकारः प्रतिबद्धः
मुख्यमन्त्रिणा उक्तं यत् कदाचित् उत्तरप्रदेशे मातृशक्तेः सुरक्षासम्बन्धिनः प्रश्नाः उद्भवन्ति स्म। एतासां वीराङ्गनानां नाम्ना क्रियमाणानां कार्याणां पृष्ठे मूलोद्देश्यं तदेव अस्ति यत् तेषु प्रश्नेषु समावृतानि संकटस्य मेघाः समाप्ताः भवेयुः। पुत्री सुरक्षितं भवेत् तथा च सम्मानपूर्वकं शिरः उन्नमय्य समाजस्य प्रत्येकस्मिन् क्षेत्रे कार्यं कर्तुं शक्नुयात्। तस्याः स्वावलम्बनाय शासनस्य योजनाः प्रभाविरूपेण अग्रे प्रवर्तेरन्। एतादृशेन विश्वासेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शनेन नेतृत्वेन च द्वयाभियानसर्वकारेण कार्यक्रमाः अग्रे वर्धिताः।
२०१७ तमे वर्षे उत्तरप्रदेशपुलिसे आसन् दशसहस्रं महिलाः, अधुना सङ्ख्या पञ्चचत्वारिंशत्सहस्राधिकाः
मुख्यमन्त्री योगी उक्तवान् यत् उत्तरप्रदेशस्य पुलिसबले विंशतिप्रतिशतं महिलानां नियुक्तिः अनिवार्या कृता अस्ति। २०१७ तमे वर्षे उत्तरप्रदेशस्य पुलिसबले महिलानां सङ्ख्या केवलं दशसहस्रम् आसीत्, सा सङ्ख्या अधुना पञ्चचत्वारिंशत्सहस्रादपि अधिका जाता अस्ति। नारी केवलं घोषवाक्यं नास्ति, अपितु नार्याः गौरवस्य संरक्षणं क्रियते। तेन महिलाः सुरक्षा, सम्मानं स्वावलम्बनं च प्राप्तुं राष्ट्रं प्रथममिति भावेन आत्मनिर्भरस्य विकसितभारतस्य च स्वप्नं साकारयितुं स्वकीयम् योगदानं दातुं शक्नुयुः।
अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, कृषिराज्यमन्त्री बलदेवसिंहऔलखः, महापौरः सुषमाखर्कवालः, विधायकः नीरजबोराः, जयदेवी, विधानपरिषद्सदस्यः उमेशद्विवेदी इत्यादयः अपि वीराङ्गनायाः अवन्तीबाईलोधी इत्यस्याः प्रतिमायै पुष्पार्चनं कृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani