जनभवने विधि विधानेन रुद्राभिषेकः संपन्नः
लखनऊ, 16 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य राज्यपालस्य आनन्दीबेनपटेलस्य प्रेरणया रविवासरे जनभवने रुद्राभिषेकस्य आयोजनं श्रद्धया भक्तिभावेन च विधिविधानपूर्वकं सम्पन्नम् अभवत्। राज्यपाला रुद्राभिषेके सहभागितां कुर्वती भगवान् शिवस्य विधिवत् पूजनम् अभिष
रुद्राभिषेक करती राज्यपाल आनंदीबेन पटेल


लखनऊ, 16 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य राज्यपालस्य आनन्दीबेनपटेलस्य प्रेरणया रविवासरे जनभवने रुद्राभिषेकस्य आयोजनं श्रद्धया भक्तिभावेन च विधिविधानपूर्वकं सम्पन्नम् अभवत्। राज्यपाला रुद्राभिषेके सहभागितां कुर्वती भगवान् शिवस्य विधिवत् पूजनम् अभिषेकं च कृतवती।

अस्मिन् अवसरे जनभवनस्य अधिकारिभिः, कर्मचारिभिः तेषां परिजनैश्च सामूहिकरूपेण मन्त्रौच्चारणे, पूजने आरत्यां च सहभागिता कृता। पूजनस्य सम्पन्नतायाः अनन्तरं राज्यपाला भ्रमणं कुर्वती रुद्राभिषेके सम्मिलितस्य प्रत्येकस्य अधिकारिणः, कर्मचारिणः तेषां परिजनानां च व्यक्तिगत रूपेण मिलितवती। सा सर्वेषाम् अभिवादनं स्वीकृत्य तेषां गृहपरिवारस्य कुशलक्षेमं ज्ञातवती तथा तेषां सुखस्वास्थ्यस्य विषये अपि जानकारीं प्राप्तवती। राज्यपाला आत्मीयतया कृतेन संवादेन अधिकारिणः कर्मचारीणश्च भावुकाः प्रसन्नाः च दृश्यन्ते स्म।

उल्लेखनीयं यत् राज्यपालस्य आनन्दीबेनपटेलस्य प्रेरणया जनभवने रुद्राभिषेकस्य परम्परा विगतेभ्यः कतिभ्यः वर्षेभ्यः प्रचलति। अस्मिन् जनभवनस्य अधिकारिणः कर्मचारीणश्च स्वकीयैः परिजनैः सह सामूहिकरूपेण श्रद्धापूर्वकं सहभागितां कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani