Enter your Email Address to subscribe to our newsletters

वाराणसी, १६ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदस्य दक्षिणी-विधानसभाक्षेत्रे ७६ दिवसीयस्य वार्डप्रवासकार्यक्रमस्य २९ तमे दिने रविवासरे विधायकः डॉ. नीलकण्ठतिवारी मध्यमेश्वरमण्डलस्य ईश्वरगङ्गीवार्डे भ्रमणं जनसम्पर्कं च कृतवान्। अस्मिन् अवसरे विधायकः स्वच्छताभियानस्य अन्तर्गतं हस्ते मार्जनीं गृहीत्वा स्वच्छताकार्यं कृत्वा जनान् स्वच्छतां प्रति जागरूकान् अकरोत्।अस्मिन् अवसरे विधायकः डॉ. नीलकण्ठः भरतमिलापकॉलोनी-उद्याने प्रकाश-व्यवस्थायाः तथा महेशनगर-उद्याने सौन्दर्यीकरणकार्यस्य च निरीक्षणं कृतवान्। तेन उद्यानेषु प्रचलितानि कार्याणि शीघ्रं पूर्णानि कर्तुं नगरनिगमस्य अधिकारिभ्यः निर्देशाः दत्ताः।
विधायकः डॉ. नीलकण्ठतिवारी अस्मिन्नेव क्रमे ‘एकं वृक्षं मातुः नाम्ना’ इति अभियानस्य अन्तर्गतं पञ्च वृक्षान् आरोपितवान्। वार्डप्रवासकार्यक्रमे तेन क्षेत्रस्य नागरिकैः सह संवादः कृतः तथा क्षेत्रीयसमस्याः श्रुताः। क्षेत्रस्य नागरिकानां समस्याः शीघ्रं समाधानं प्राप्नुयुः इति विधायकः अधिकारिभिः सह चर्चां कृत्वा तान् निर्देशान् दत्तवान्।
Hindusthan Samachar / Divya Ranjan