मीरजापुरे उद्घटिष्यति प्रधानमंत्री दिव्याशा-वयोश्री केंद्रं, केंद्रीय मंत्री अनुप्रिया पटेल करिष्यति उद्घाटनम्
- 17 अगस्त दिनांके जिला महिला चिकित्सालये भविष्यति कार्यक्रमः, दिव्यांगेभ्यो वृद्धेभ्यः मेलिष्यति निःशुल्कं सहायकानि उपकरणानि मीरजापुरम्, 16 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य दिव्याङ्गजनानां वरिष्ठनागरिकाणां च कृते महती सौगात्
प्रतीकात्मक फोटो


- 17 अगस्त दिनांके जिला महिला चिकित्सालये भविष्यति कार्यक्रमः, दिव्यांगेभ्यो वृद्धेभ्यः मेलिष्यति निःशुल्कं सहायकानि उपकरणानि

मीरजापुरम्, 16 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरजनपदस्य दिव्याङ्गजनानां वरिष्ठनागरिकाणां च कृते महती सौगात् शीघ्रमेव प्राप्तुं गच्छति। सामाजिकन्यायाधिकारितामन्त्रालयस्य दिव्याङ्गजनसशक्तीकरणविभागस्य तथा भारतीयकृत्रिमाङ्गनिर्माणनिगमस्य एलिम्को इत्यस्य च तत्त्वावधानेन मीरजापुरे प्रधानमन्त्रिणः दिव्याशावयोश्रीकेन्द्रस्य शुभारम्भः करिष्यते। केन्द्रस्य उद्घाटनं अगस्तमासस्य सप्तदशदिनाङ्के केन्द्रीय राज्यमन्त्रिण्या अनुप्रियापटेलवर्यया करिष्यते।

जिलामहिलाचिकित्सालये सोमवासरे मध्याह्नद्वादशवादने आयोज्यमाने कार्यक्रमे एडिपयोजनायाः राष्ट्रियवयोश्रीयोजनायाश्च अन्तर्गतं दिव्याङ्गजनेभ्यः वरिष्ठनागरिकेभ्यश्च निःशुल्कसहायकसाधनानाम् अपि वितरणं करिष्यते। केन्द्रस्य प्रारम्भेन जनपदस्य पात्रजनानां सहायकसाधनप्राप्त्यर्थं दूरस्थक्षेत्रेषु गमनस्य कष्टं न्यूनं भविष्यति।

कार्यक्रमस्य मुख्यातिथिः भारतसर्वकारस्य स्वास्थ्यपरिवारकल्याणस्य तथा रसायनउर्वरकमन्त्रालयस्य राज्यमन्त्री अनुप्रियापटेलवर्या भविष्यति। कार्यक्रमे नगरविधायकः पण्डितरत्नाकरमिश्रः, छानबेक्षेत्रस्य विधायकः रिङ्कीकोलः, मझवांक्षेत्रस्य विधायकः सुचिस्मितामौर्या, चुनारक्षेत्रस्य विधायकः अनुरागसिंहः, मड़िहानक्षेत्रस्य विधायकः रमाशंकरसिंहपटेलः, विधानपरिषदः सदस्यः श्यामनारायणसिंहः, नगरपालिकाध्यक्षः श्यामसुन्दरकेसरी इत्यादयः अन्ये जनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति।

एलिम्को इत्यस्य तत्त्वावधानेन जिलाप्रशासनस्य सहयोगेन आयोज्यमाने कार्यक्रमे पात्रेभ्यः दिव्याङ्गजनेभ्यः वरिष्ठनागरिकेभ्यश्च तेषां आवश्यकतानुसारं विभिन्नानि सहायकसाधनानि उपलब्धानि कारयिष्यन्ते। एतेषां साधनानां माध्यमेन चलने, श्रवणे तथा दैनिकजीवनस्य कार्येषु सहायता प्राप्स्यते तथा च तेषाम् आत्मनिर्भरता वर्धयितुं साहाय्यं भविष्यति। केन्द्रस्य माध्यमेन आवश्यकतावद्भ्यः जनभ्यः विविधयोजनानां सूचना तथा सहायकसाधनेभ्यः सुलभा प्राप्तिः सुनिश्चितां कर्तुं प्रयासः क्रियते।

अधिकारिणां अनुसारम् अस्य केन्द्रस्य उद्देश्यं दिव्याङ्गजनानां वरिष्ठनागरिकाणां च जीवनं अधिकं सुगमं सम्मानजनकं च कर्तुम् अस्ति। उक्ता सूचना जिलाप्रशासनस्य पक्षतः प्रदत्ता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani