Enter your Email Address to subscribe to our newsletters



प्रयागराजः, 16 अगस्तमासः (हि.स.)।स्वातन्त्र्यदिवसस्य विलम्बितसायंकाले मध्यवायुकमानस्य मुख्यालयस्य तत्त्वावधाने वायुसैन्यस्थानकं बमरौली इत्यनेन ऐतिहासिके चन्द्रशेखरआजादोद्यानस्य भव्ये प्राङ्गणे संगीतमयः कार्यक्रमः आयोजितः। भारतीयवायुसैन्यस्य वाद्यवृन्दस्य देशभक्तिभावनापरिपूर्णाभिः धुनिभिः सम्पूर्णं वातावरणं राष्ट्रभक्त्या परिपूर्णम् अभवत्। कार्यक्रमे नगरस्य बहुसंख्याकाः नागरिकाः सम्मिलिताः तथा च कलाकाराणां प्रस्तुतयः उत्साहपूर्वकम् आनन्दितवन्तः।
कार्यक्रमे मध्यवायुकमानस्य वाय्वधिकारी कमाण्डर्-इन-चीफ् एयर मार्शल् तरुण चौधरी, एवीएसएम, वीएसएम इत्येते मुख्यातिथिरूपेण उपस्थिताः आसन्। तेषां उपस्थित्या कार्यक्रमस्य गरिमा अधिका अभवत्। भारतीयवायुसैन्यस्य राष्ट्रं सङ्गीतेन सह संयोजयितुं विद्यमानां गौरवपूर्णां परम्परां अग्रे नयन् क्रमाङ्क-४ वायुसैन्यस्य वाद्यवृन्देन मनोहराः प्रस्तुतयः प्रदत्ताः।
वाद्यवृन्देन देशभक्तिगीतानि देशभक्तिधुनयश्च, सैन्यरचनाः, शास्त्रीयसङ्गीतं लोकप्रियवाद्यसङ्गीतं च प्रस्तुतम्। कलाकारैः उत्तमेन समन्वयेन सुस्पष्टतया च प्रस्तुतिं दत्त्वा दर्शकेषु राष्ट्रगौरवस्य भावनां जागरिता। प्रत्येकस्य प्रस्तुत्यनन्तरं दर्शकैः करताडनैः कलाकाराणां उत्साहवर्धनं कृतम्।
कार्यक्रमस्य माध्यमेन भारतीयवायुसैन्यस्य गौरवपूर्णपरम्पराणां मूल्यानां च सामान्यनागरिकेषु प्रसारणस्य प्रयासः कृतः। तेन सह रक्षाबलानां नागरिकानां च मध्ये सम्बन्धान् अधिकं सुदृढान् कर्तुं सन्देशः अपि प्रदत्तः। कार्यक्रमे विशेषरूपेण युवानः एकतायाः अनुशासनस्य राष्ट्रभक्तेः च भावनाभिः प्रेरिताः।
रक्षामन्त्रालयस्य प्रवक्ता प्रयागराजस्य जनसम्पर्काधिकारी च विंग कमाण्डर् देबार्थो धरः अवदत् यत् एतादृशाः कार्यक्रमाः भारतीयवायुसैन्यस्य सामान्यनागरिकाणां च मध्ये सम्बन्धं सुदृढं कुर्वन्ति। सङ्गीतस्य माध्यमेन देशभक्तेः राष्ट्रियैकतायाः च भावनां जनसामान्यं प्रति प्रसारयितुम् एषः प्रभावी माध्यमः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani