Enter your Email Address to subscribe to our newsletters

—मुख्यमन्त्री धामिना अटल-बिहारी-वाजपेयी-महोदयस्य पुण्यतिथौ अर्पिता श्रद्धाञ्जलिः
देहरादूनम्, १६ अगस्तमासः (हि.स.)। पूर्वप्रधानमन्त्रिणे भारतरत्नेन अटल-बिहारी-वाजपेयी-महोदयाय पुण्यतिथौ मुख्यमन्त्री पुष्करसिंहधामी भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् राष्ट्रसेवायै सुशासनाय च अटल-बिहारी-वाजपेयी-महोदयः सदैव स्मरिष्यते। रविवासरे प्रातः मुख्यमन्त्रिणा स्वकीय-आवासे अटल-बिहारी-वाजपेयी-महोदयस्य चित्रे श्रद्धासुमनः समर्प्य तस्य स्मरणं कृतम्।
मुख्यमन्त्री धामी अवदत् यत् अटल-बिहारी-वाजपेयी भारतमातुः उपासकः, राष्ट्रवादी चिन्तकः, प्रखरवक्ता, प्रख्यातकविः, लोकतान्त्रिकमूल्यानां च सजगः प्रहरी आसीत्। सः स्वस्य सार्वजनिकजीवने राष्ट्रसेवायै, सुशासनाय, राष्ट्रियैकतायै, लोकतान्त्रिकादर्शेभ्यश्च सर्वोच्चं प्राधान्यं प्रदत्तवान्।
सः अवदत् यत् अटलजी राजनीतिक्षेत्रे उच्चादर्शानां मूल्यानां च स्थापना कृतवान्। सः देशस्य लोकतान्त्रिकपरम्पराः सुदृढीकृत्य भारतं विश्वपटलस्य एकं शक्तिशालिनं राष्ट्रम् इति रूपेण प्रतिष्ठापयितुं महत्त्वपूर्णं योगदानं प्रदत्तवान्।
मुख्यमन्त्री अवदत् यत् अटल-महोदयस्य दूरदर्शी चिन्तनम्, सरलः सहजश्च व्यक्तित्वम्, राष्ट्रहिते च तस्य समर्पणं सदैव स्मरणीयं भविष्यति। तस्य व्यक्तित्वं कृतित्वं च देशवासिनां कृते सदैव प्रेरणायाः स्रोतः भविष्यति।
Hindusthan Samachar / Divya Ranjan