हरियाणायाः मुख्यमंत्री  पूर्व प्रधानमंत्रिणं वाजपेयिनं  श्रद्धांजलिना अनमत्
चंडीगढ़म्, 16 अगस्तमासः (हि.स.)। हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसैनी रविवासरे पूर्वप्रधानमन्त्रिणः भारतरत्नसम्मानितस्य अटलविहारीवाजपेयीमहाभागस्य पुण्यतिथौ चण्डीगढस्थिते स्वकीयसर्वकारीयावासे तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यम
हरियाणा के मुख्यमंत्री नायब सैनी पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी काे श्रद्धांजलि भेंट करते हुए


चंडीगढ़म्, 16 अगस्तमासः (हि.स.)।

हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसैनी रविवासरे पूर्वप्रधानमन्त्रिणः भारतरत्नसम्मानितस्य अटलविहारीवाजपेयीमहाभागस्य पुण्यतिथौ चण्डीगढस्थिते स्वकीयसर्वकारीयावासे तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्रिणा स्वर्गीयवाजपेयीमहाभागस्य चित्रे पुष्पाणि समर्प्य तस्मै श्रद्धापूर्वकं नमनं कृतम् तथा च राष्ट्रस्य प्रति तेन प्रदत्तं अतुलनीययोगदानं स्मृतम्।

अस्मिन् अवसरे मुख्यमन्त्री नायबसिंहसैनी उक्तवान् यत् अटलजीवर्यस्य राष्ट्रस्य प्रति अखण्डसमर्पणम्, विचारेषु दृढता तथा लोकतान्त्रिकमर्यादानां प्रति तस्य निष्ठा च तं भारतीयराजनीतेः युगपुरुषत्वेन प्रतिष्ठितवन्तः, यस्य स्मृतिः सदैव देशवासिनां मनसि जीवन्ती स्थास्यति। तेन उक्तं यत् अटलजीवर्यस्य विचाराः, दूरदर्शिनः नेतृत्वम् तथा उच्चादर्शाः राष्ट्रसेवायाः मार्गे सर्वान् निरन्तरं मार्गदर्शनं प्रदास्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani