प्रधानमन्त्रिणा बीरभूम-अग्निकाण्डे जनहानौ दुःखं प्रकटितम्
नवदिल्ली, १७ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे पश्चिमबङ्गस्य बीरभूम-मण्डले अग्नि-काण्डेन जनानां मृत्योः गहनं दुःखं प्रकटितम्। सः दुर्घटनायां प्राणान् त्यक्तवतां जनानां परिजनेभ्यः समवेदना प्रकटयन् घआहतानां शीघ्रस्वास्थ्यलाभा
प्रधानमंत्री नरेन्द्र मोदी शनिवार को मैसूर में ‘विवेक स्मारक’ का उद्घाटन करने के बाद सभा को संबोधित करते हुए


नवदिल्ली, १७ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे पश्चिमबङ्गस्य बीरभूम-मण्डले अग्नि-काण्डेन जनानां मृत्योः गहनं दुःखं प्रकटितम्। सः दुर्घटनायां प्राणान् त्यक्तवतां जनानां परिजनेभ्यः समवेदना प्रकटयन् घआहतानां शीघ्रस्वास्थ्यलाभाय शुभका-मनाम् अयच्छत्।

प्रधानमन्त्रिणा सामाजिकमाध्यममञ्चे ‘एक्स’-इत्यत्र प्रकाशिते सन्देशे उक्तं यत् बीरभूमे अग्निकाण्डेन जाता जनहानिः तं अत्यन्तं दुःखितं कृतवती अस्ति। स्थानीयप्रशासनं दुर्घटनया प्रभावितेभ्यः जनेभ्यः सर्वसम्भवं साहाय्यं प्रददाति। मोदी मृतकानां परिजनेभ्यः समवेदनां प्रकटितवान् तथा च आहतानां शीघ्र-स्वास्थ्यलाभाय कामनां कृतवान्।

Hindusthan Samachar / Divya Ranjan