नितिननवीनस्य नूतनदलस्य घोषणा, वसुन्धराराजे उपाध्यक्षा, स्मृतिईराणी महासचिवा, पीयूषगोयलः कोषाध्यक्षः
नवदिल्ली, १७ अगस्तमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य राष्ट्रीया-ध्यक्षेण नितिननवीनेन सोमवासरे स्वस्य नूतनदलस्य घोषणा कृता। राजस्थानस्य पूर्वमुख्यमन्त्रिणी वसुन्धरा-राजे, वरिष्ठ-नेता राममाधवेन सह त्रयोदश नेतारः राष्ट्रीय-उपाध्यक्षपदं प्राप्तवन्त
भाजपा द्वारा जारी संगठनात्मक बदलाव की सूची


सूची


सूची


नवदिल्ली, १७ अगस्तमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य राष्ट्रीया-ध्यक्षेण नितिननवीनेन सोमवासरे स्वस्य नूतनदलस्य घोषणा कृता। राजस्थानस्य पूर्वमुख्यमन्त्रिणी वसुन्धरा-राजे, वरिष्ठ-नेता राममाधवेन सह त्रयोदश नेतारः राष्ट्रीय-उपाध्यक्षपदं प्राप्तवन्तः। पूर्व-केन्द्रीयमन्त्रिणी स्मृतिईराणी, विनोदतावडे, हरीशद्विवेदी इत्येतै: सह अष्ट नेतारः राष्ट्रीयमहासचिवपदस्य दायित्वं प्राप्तवन्तः।

भाजपया प्रकाशितस्य विज्ञप्तेः अनुसारं वसुन्धराराजेसिन्धिया, तीरथसिंहरावतः, राममाधवः, बैजयन्तजयपाण्डा, डी. पुरन्देश्वरी, रेखावर्मा, वर्षाबेननरेन्द्र-भाईदोषी, भारतीप्रवीणपवारः, मनप्रीत-सिंहबादलः, लालसिंहआर्यः, एम. नागराजः, तारिकमन्सूरः तथा मधुचन्द्रकरः राष्ट्रिय-उपाध्यक्षाः नियुक्ताः सन्ति। बी.एल. सन्तोषः राष्ट्रिय-महासचिवः (सङ्गठनम्) भविष्यति। शिवप्रकाशः तथा सौदानसिंहः पुनः राष्ट्रिय-सह-महासचिवयोः (सङ्गठ-नम्) दायित्वं प्राप्तवन्तौ। विनोदतावडे, सुनीलबन्सलः, विप्लवदेवः, स्मृतिईराणी, सतीशपूणिया, गजेन्द्रपटेलः, हरीशद्विवेदी तथा सञ्जयभाटिया राष्ट्रियमहासचिवाः भविष्यन्ति। पीयूष-गोयलः राष्ट्रियकोषाध्यक्षः नियुक्तः।

पक्षेण कुलं सप्तभ्यः राज्येभ्यः अष्टौ महासचिवाः नियुक्ताः सन्ति, येषु सर्वाधिकौ द्वौ नेतारौ उत्तरप्रदेशात् सन्ति। चतस्रः महिलाः राष्ट्रियसचिवरूपेण नियुक्ताः सन्ति।

राष्ट्रियसचिवस्य दायित्वं कविता पाटीदारः, के. सुरेन्द्रन्, भोला सिंहः, प्रदीपवर्मा, जगदीशईश्वरभाईपटेलः, सन्दीपपाठकः, फाङ्ग्नोनकोन्यकः, सङ्गीतायादवः, अनिलएण्टनी, एम. वेङ्कटेशनः, मनोजटिग्गा, सिद्धार्थशम्भुः, स्वदेशसिंहः, मृगाङ्कादेवबर्मन्, रोहनगुप्तः तथा जयप्रकाशः प्राप्तवन्तः। अपरतः तरुणचुगः राष्ट्रियकार्यालयप्रभारी तथा महेन्द्रपाण्डे राष्ट्रियकार्यालयमन्त्री नियुक्तौ। डॉ. सम्बित्पात्रः उत्तरपूर्वसंयोजकरूपेण नियुक्तः। प्रकोष्ठसङ्कुलस्य संयोजकः विष्णुदत्तशर्मा नियुक्तः। अस्य प्रकोष्ठस्य सहसंयोजकौ ऋतुराजसिन्हा तथा विष्णुवर्धनरेड्डी नियुक्तौ।

हेमाङ्गजोशी युवा-मोर्चायाः, रूपकुमारी-चौधरी महिला-मोर्चायाः, अमरपालमौर्यः अन्यपृष्ठवर्ग-मोर्चायाः, बंसीलालगुर्जरः किसान-मोर्चायाः, शिवेशकुमाररामः अनुसूचितजाति-मोर्चायाः, डॉ. मन्ना-लालरावतः अनुसूचितजनजाति-मोर्चायाः तथा कुँवरबासितअली अल्पसंख्यक-मोर्चायाः अध्यक्षत्वेन नियुक्ताः।

अनिलबलूनी पुनः माध्यमसंयोजकरूपेण नियुक्तः। आशीष-उषाअग्रवालः, प्रदीप-भण्डारी तथा सिद्धार्थयादवः सह-संयोजकाः नियुक्ताः। दीपकम्हस्के सामाजिकमाध्यमसंयोजकरूपेण नियुक्तः। प्रीतिगान्धी, शिवानन्दद्विवेदी, आलोकभट्टः तथा अरुणयादवः सहसंयोजकाः नियुक्ताः।

Hindusthan Samachar / Divya Ranjan