Enter your Email Address to subscribe to our newsletters

भोपालम्, १७ अगस्तमासः (हि.स.)। मध्यप्रदेशभारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः सोमवासरे प्रदेशस्य पक्षनेतॄणां राष्ट्रीयपदाधिकारिरूपेण नियुक्तौ शुभकामनाः प्रदाय अवदत् यत् मध्यप्रदेश-भाजपायाः संगठनात्मकः प्रभावः स्थानं च राष्ट्रीयस्तरे अधिकं वर्धिष्यते। राष्ट्रीयस्तरे उत्तरदायित्वस्य प्राप्तिः प्रत्येकं कार्यकर्तुः कृते गौरवस्य विषयः अस्ति। भाजपा कार्यकर्तॄणां पक्षः अस्ति तथा पक्षस्य मध्ये दायित्वप्रदानं कार्यकर्तॄणां समर्पणस्य, परिश्रमस्य, निष्ठायाः संगठनस्य प्रति प्रतिबद्धतायाः च सम्मानम् अस्ति। अनेन मध्यप्रदेश-भाजपायाः संगठनात्मकानुभवः, कार्यपद्धतिः सुदृढसंगठनस्य च परिचयः राष्ट्रीयस्तरे अधिकं सुदृढः भविष्यति।
सः अवदत् यत् मध्यप्रदेशस्य लालसिंह-आर्यः राष्ट्रीयः उपाध्यक्षः, वरिष्ठनेता सौदानसिंहः राष्ट्रीयः सह-संघटनमहामन्त्री, सांसदः गजेन्द्रसिंहपटेलः राष्ट्रीयः महामन्त्री, सांसद् कविता पाटीदारः राष्ट्रीयः मन्त्री, मध्यप्रदेशतः राज्यसभासांसदः तरुणचुघः राष्ट्रीयकार्यालयप्रभारी, पक्षस्य पूर्वप्रदेशाध्यक्षः सांसद् विष्णुदत्तशर्मा च राष्ट्रीयप्रकोष्ठसंकुलसंयोजकरूपेण, सांसद् बंशीलालगुर्जरः किसानमोर्चायाः राष्ट्रीयाध्यक्षः तथा प्रदेशमीडियाप्रभारी आशीष-उषा-अग्रवालः पक्षस्य मीडियाविभागस्य राष्ट्रीयसहसंयोजकरूपेण नियुक्ताः सन्ति। एतत् मध्यप्रदेशस्य सर्वेषां कार्यकर्तॄणां कृते गौरवस्य विषयः अस्ति।
भाजपापक्षस्य राष्ट्रीयपक्षः संघटनम् अधिकं सुदृढं करिष्यति
भाजपापक्षस्य प्रदेशाध्यक्षः खण्डेलवालः अवदत् यत् राष्ट्रीयसंगठने नवीनदायित्वानि प्राप्तवन्तः सर्वे कार्यकर्तारः प्रधानमन्त्रिणः नरेन्द्रमोदिनः, केन्द्रीयगृहमन्त्रिणः अमितशाहस्य तथा भाजपायाः राष्ट्रीयाध्यक्षस्य नितिननवीनस्य मार्गदर्शने भाजपा-संगठनं अधिकं सुदृढं करिष्यन्ति। तेषाम् अनुभवेन, कार्यकौशलेन समर्पणेन च भाजपायाः विचारधारां जनं जनं प्रति प्रापयितुं तथा संगठनस्य कार्याणि नवीनोन्नतिं प्रति नेतुं महत्त्वपूर्णं योगदानं भविष्यति।
भाजपायाः मूलमन्त्रः ‘राष्ट्रं प्रथमम्’ इति अस्ति। राष्ट्रीयदायित्वं प्राप्तवन्तः सर्वे नेतारः एतस्य भावनया संगठनस्य राष्ट्रहितस्य च सर्वोच्चप्राथम्यं स्वीकृत्य स्वकीयदायित्वानां निर्वहणं करिष्यन्ति। ते प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विकसितस्य आत्मनिर्भरस्य च भारतस्य संकल्पं साकारं कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।
सः विश्वासं व्यक्तवान् यत् सर्वे नेतारः स्वकीयेन उत्कृष्टप्रदर्शनेन संगठनं शिखरं प्रति नीत्वा भारतं परमवैभवं प्रति नेतुं प्रवर्तमानस्य अभियानस्य प्रभावपूर्णं योगदानं प्रदास्यन्ति।
भाजपापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः सर्वेषां नवनियुक्तानां राष्ट्रीयपदाधिकारिणां उज्ज्वलभविष्यस्य कामनां कुर्वन् अवदत् यत् तेषां नेतृत्वेन, अनुभवेन परिश्रमेण च भारतीयजनतापक्षस्य संगठनं अधिकं सशक्तं भविष्यति तथा पक्षस्य विचारधारा राष्ट्रसेवायाः संकल्पश्च समाजस्य प्रत्येकं वर्गं प्रति अधिकव्यापकरूपेण प्राप्स्यतः।
Hindusthan Samachar / Divya Ranjan