आगरमालवाः बाबा बैजनाथ महादेवस्य कृतो नागभूषण शृंगारः
आगरमालवा, 17 अगस्तमासः (हि.स.)। श्रावणमासस्य तृतीयसोमवासरस्य नागपञ्चम्याः च संयोगावसरे मध्यप्रदेशस्य आगरमालवाजनपदे स्थिते प्रसिद्धे प्राचीन ऐतिहासिके च शिवालये श्रीबैजनाथमहादेवमन्दिरे बहुसंख्याकाः श्रद्धालवः समागतवन्तः। ते पङ्क्तिबद्धरूपेण स्थित्वा
1 फोटो


आगरमालवा, 17 अगस्तमासः (हि.स.)। श्रावणमासस्य तृतीयसोमवासरस्य नागपञ्चम्याः च संयोगावसरे मध्यप्रदेशस्य आगरमालवाजनपदे स्थिते प्रसिद्धे प्राचीन ऐतिहासिके च शिवालये श्रीबैजनाथमहादेवमन्दिरे बहुसंख्याकाः श्रद्धालवः समागतवन्तः। ते पङ्क्तिबद्धरूपेण स्थित्वा हरहरमहादेव इति जयघोषं कुर्वन्तः बाबा बैजनाथस्य दर्शनं कृतवन्तः। अस्मिन् अवसरे बाबा बैजनाथस्य नागभूषणशृङ्गारः कृतः, यः भक्तानां कृते विशेषाकर्षणस्य केन्द्रमभवत्।

सावनसोमवासरस्य कारणेन मन्दिरे कावडियानां अपि बहुसङ्ख्यया उपस्थितिः आसीत्। ग्रामीणक्षेत्रेभ्यः शिवभक्ताः पद्भ्यां समूहैः च कावडं धारयन्तः मन्दिरं प्रति समागतवन्तः। मार्गे तेषां स्वागतं कृतम्। अनेकाः कावडयात्राः वाद्ययन्त्राणां धार्मिकगीतानां च घोषैः सह मन्दिरं प्राप्ताः। मन्दिरं प्राप्य ते पवित्रजलेन बाबा बैजनाथमहादेवस्य अभिषेकं कृतवन्तः।

अपरपक्षे नागपञ्चम्याः अवसरे अद्य जनपदस्य विभिन्नेषु नागमन्दिरेषु विशेषपूजाः अर्चनानि च आयोजितानि। जनपदमुख्यालये स्थितायां राममालीनां चारचरसस्य बावड्यां वर्षे एकवारं आयोज्यमानायां विशेषपूजायाम् अपि बहुसङ्ख्याकाः श्रद्धालवः समागतवन्तः। श्रीबैजनाथमहादेवमन्दिरमार्गे स्थिते इच्छाधारीनागनागिन्योः मन्दिरे, मालीखेड़ीमार्गे स्थिते नागमन्दिरे च विशेषपूजाः सम्पन्नाः। तदतिरिक्तं सुसनेर, बड़ौद, कानड़, नलखेड़ा, सोयतकलां, तनोड़िया, पिपलोनकलां इत्यादिषु जनपदस्य विभिन्नेषु स्थानेषु नागपञ्चम्याः अवसरे विविधाः धार्मिकाः कार्यक्रमाः आयोजिताः।

Hindusthan Samachar / Dheeraj Maithani