Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य स्वातन्त्र्यदिवसस्य सम्बोधने प्रयुक्तस्य ‘दिमागी नक्सल’ इति शब्दस्य विषये भाजपादलेन काङ्ग्रेस्-पक्षस्य वरिष्ठ-नेतारं पी. चिदम्बरम् प्रति तीव्रः प्रहारः कृतः। भाजपादलस्य कथनमस्ति यत् प्रधानमन्त्रिणा एतद्विषयस्य उल्लेखं कृतस्य २४ घण्टानाम् अन्तरे एव पी. चिदम्बरम् कथितरूपेण “दिमागी नक्सली भवितुं गौरवान्वितोऽस्मि” इति उक्त्वा स्वकीयां विचारधारां प्रकाशितवान्।
सोमवासरे भाजपामुख्यालये आयोजितायां वार्ताहरसम्मेलने सांसदः सुधांशु त्रिवेदी अवदत् यत् देशः स्वातन्त्र्यस्य अशीतितमे वर्षे प्रविष्टवान् अस्ति तथा च एतादृशे समये प्रधानमन्त्रिणा राष्ट्रस्य समक्षं ‘दिमागी नक्सल’ इत्यस्याः विचारधारायाः संकटं प्रति ध्यानम् आकर्षितम्। किन्तु पी. चिदम्बरमस्य प्रतिक्रिया एतस्य प्रमाणम् अस्ति यत् एतादृशीं मानसिकतां धारयन्तः जनाः स्वयमेव अग्रे आगच्छन्ति।
ते काङ्ग्रेस्-पक्षं पूर्वप्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य १३ अप्रैल २००६ दिनाङ्कस्य वक्तव्यं स्मारितवन्तः, यस्मिन् तेन उक्तं यत् “नक्सलवादस्य संकटम् अद्यपर्यन्तं भारतस्य इतिहासे आन्तरिक-सुरक्षायै उत्पन्नः सर्वमहान् संकटः अस्ति।” सः प्रश्नम् अकरोत् यत् यदा काङ्ग्रेस-पक्षस्य एव प्रधानमन्त्री नक्सलवादं सर्वाधिकं आन्तरिक-सुरक्षासंकटं मन्यते स्म, तदा अद्य काङ्ग्रेस्-पक्षस्य वरिष्ठनेतारः एतादृशं वक्तव्यं किमर्थं ददति?
भाजपादलेन आरोपितं यत् यूपीए-सर्वकारस्य शासनकाले देशे कथितस्य ‘रेड कॉरिडोर’ इत्यस्य विस्तारः अभवत् तथा च १८० तः अधिकाः जनपदाः नक्सलवादेन प्रभाविताः अभवन्।
सुधांशु त्रिवेदी अवदत् यत् पी. चिदम्बरमस्य गृहमन्त्रित्वकाले ५,००० तः अधिकानां निर्दोषनागरिकाणां मृत्युः अभवत्, १,९१३ सुरक्षाबलानां सैनिकाः नक्सली-हिंसायां वीरगतिं प्राप्तवन्तः तथा च नक्सलवादिनां समीपे विद्यमानानां ९२ प्रतिशताधिकानां आयुधानां लुण्ठनं आरक्षक-बलात् कृतम् आसीत्।
सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे नक्सलवादेन प्रभावितेषु क्षेत्रेषु सुरक्षया सह विकासाय अपि प्राथमिकता प्रदत्ता। एतेषु क्षेत्रेषु अधुना १,८०० तः अधिकाः धनागार-शाखाः, १,२०० तः अधिकानि एटीएम्-केन्द्राणि तथा ६,००० तः अधिकाः चलदूरभाष-स्तम्भाः स्थापिताः सन्ति, येन जनानां कृते बैंकिङ्ग्, सञ्चारः अन्याः आधारभूत-सुविधाश्च उपलब्धाः भवन्ति। तदतिरिक्तं २२ लक्षतः अधिकैः जनैः आयुष्मान्-भारत-योजनायाः लाभः प्राप्तः।
सः अवदत् यत् सर्वकारस्य उद्देश्यं नक्सलवादेन प्रभावितक्षेत्राणि विकासस्य मुख्यधारया सह संयोजयितुम् अस्ति। सुधांशुत्रिवेदिना आरोपितं यत् ये जनाः एतानि विकासकार्याणि तत्रत्यं सकारात्मकं परिवर्तनं च न रोचयन्ते, ते एव ‘दिमागी नक्सल’ इत्यस्य विचारधारायाः प्रतिनिधित्वं कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan