Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्रिणा देवेन्द्र-फडणवीसः सोमवासरे अत्र प्रधान-मन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवान्। अस्मिन् अवसरे उभयोः नेत्रो: मध्ये विविधविषयेषु विस्तृतविमर्शः अभवत्।
प्रधानमन्त्रिकार्यालयेन सामाजिक-माध्यममञ्चे ‘एक्स’-इत्यत्र प्रधानमन्त्रिणः मोदी-महोदयस्य फडणवीसेन सह मिलनस्य सूचना प्रकाशिता।
फडणवीसेन अपि ‘एक्स’-इत्यत्र मेलनस्य चित्राणि प्रकाश्य उक्तं यत् तेन दिल्ली इत्यत्र प्रधानमन्त्रिणा सह मिलित्वा विविधविषयेषु विस्तृतः विमर्शः कृतः।
तेन प्रधानमन्त्रिणे महाराष्ट्रे प्रचलितानां विविधविकासपरियोजनानां प्रगतिविषये सूचना प्रदत्ता तथा च केन्द्र-सर्वकारस्य राज्य-सर्वकारस्य च संयुक्तपरियोजनाभ्यः केन्द्रात् अधिकसहयोगस्य अनुरोधः कृतः।
फडणवीसेन उक्तं यत् प्रधानमन्त्रिणा सह मिलनं सर्वदा प्रेरणादायकं भवति तथा च तेन सकारात्मकशक्तिः प्राप्यते। विकास-सम्बद्धेषु विषयेषु प्रधानमन्त्रिणः निरन्तरमार्गदर्शनाय महाराष्ट्राय च प्राप्य-माणस्य दृढसहयोगस्य कृते तेन कृतज्ञतापि प्रकटिता।
Hindusthan Samachar / Divya Ranjan