Enter your Email Address to subscribe to our newsletters

लखनऊ, 17 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य योगिसर्वकारेण आलूक उत्पादककृषकाणां हिताय महत्त्वपूर्णं पदं स्वीकृत्य वित्तीयवर्षे २०२६-२७ त्रयः महत्त्वपूर्णाः योजनाः प्रवर्तिताः। प्रदेशस्य उद्यान, कृषिविपणन, कृषिविदेशव्यापार एवं कृषिनिर्यात राज्यमन्त्रिणा दिनेशप्रतापसिंहेन सोमवासरे उद्यानभवने, सप्रूमार्गे, लखनऊनगरे एतासां योजनानां सफलतापूर्वकं पारदर्शितया च कार्यान्वयनाय नवविकसितस्य ऑनलाइन-द्वारस्य https://potato.uphorticulture.in/ इत्यस्य शुभारम्भः कृतः।
मन्त्रिणा दिनेशप्रतापसिंहेन कथितं यत् आलूकस्य अधिकोत्पादनसमये विपण्यां मूल्ये जायमानात् न्यूनतायाः कृषकाणां संरक्षणाय १००० कोटिरूप्यकाणां भामाशाह-मूल्यस्थिरीकरणकोषस्य स्थापना कृता अस्ति, यस्य कृते १०० कोटिरूप्यकाणां सांकेतिकधनराशेः प्रावधानं कृतम् अस्ति। योजनायाः अन्तर्गतं कृष्युत्पादनायुक्तस्य अध्यक्षतायां गठितया समित्या आलूकस्य उत्पादनव्ययः निर्धारितः भविष्यति। कृषकेभ्यः निर्धारितस्य उत्पादनव्ययस्य २५ प्रतिशतं अथवा उत्पादनव्ययस्य विक्रयदरस्य च अन्तरराशेः यत् न्यूनं भविष्यति, सा राशि अनुदानरूपेण प्रदास्यते। प्रत्येकं कृषकं प्रति अधिकतमं ०२ हेक्टेयरपरिमितं क्षेत्रं तथा प्रत्येकस्मिन् हेक्टेयरे अधिकतमं २४० क्विण्टलपरिमितस्य आलूकस्य कृते अनुदानं अनुमन्यते। अनेन प्रायः १२ तः १४ लक्षपर्यन्तं कृषकाः लाभान्विताः भविष्यन्ति।
योजनायाः लाभं प्राप्तुं कृषकैः केवलं ऑनलाइन-माध्यमेन आवेदनं करणीयम्, ऑफलाइन-माध्यमेन कृतानि आवेदनानि स्वीकृतानि न भविष्यन्ति। पात्रकृषकाणां अनुदानधनराशिः आधार-संलग्न-प्रत्यक्षलाभान्तरणस्य माध्यमेन साक्षात् तेषां बैंकखातेभ्यः प्रेषयिष्यते। योजनायाः कार्यान्वयनकालः जनवरीमासस्य प्रथमदिनाङ्कात् अप्रैलमासस्य पञ्चदशदिनाङ्कपर्यन्तं तथा जुलाईमासस्य प्रथमदिनाङ्कात् अक्टोबरमासस्य एकत्रिंशद्दिनाङ्कपर्यन्तं निर्धारितः अस्ति। लाभप्राप्त्यर्थं क्रेता-विक्रेता-व्यवहारपत्रं अनिवार्यं भविष्यति तथा कृषकाः मण्ड्यां, उपमण्ड्यां, शीतगृहपरिसरे अथवा स्वकीयक्षेत्रे आलूकस्य विक्रयं कृत्वा लाभं प्राप्तुं शक्नुवन्ति।
योगिसर्वकारेण निजीयशीतगृहेषु भण्डारितानां कृषकाणां कृते अपि महत् रक्षणं प्रदत्तम् अस्ति। प्रदेशे २३६३ निजीयशीतगृहेषु १७३.०३ लक्षमेट्रिकटनपरिमितः आलूकः भण्डारितः अस्ति। भण्डारणप्रभारे छूटप्रदानाय १००० कोटिरूप्यकाणां योजना प्रवर्तिता अस्ति, यस्यां १०० कोटिरूप्यकाणां सांकेतिकधनराशेः प्रावधानं कृतम् अस्ति। अस्याः योजनायाः अन्तर्गतं प्रति क्विण्टलं १०० रूप्यकाणां दरया अनुदानं प्रदास्यते तथा प्रत्येकं कृषकं प्रति अधिकतमं २०,००० रूप्यकाणां अनुदानं देयं भविष्यति। अनेन १५ लक्षाधिकाः कृषकाः लाभान्विताः भविष्यन्ति।
कृषकेभ्यः नवीनानां उच्चगुणवत्तायुक्तानां च आलूकप्रजातीनां बीजानि उपलब्धानि कर्तुं ०५ कोटिरूप्यकाणां बीजविक्रयमूल्य-छूटयोजना प्रवर्तिता अस्ति। अस्याः योजनायाः अन्तर्गतं विभागीयमूलवर्गीय-आलूकबीजानां क्रये अधिकतमं १००० रूप्यकाणां प्रति क्विण्टलं छूटं प्रदास्यते, येन प्रतिहेक्टेयरं उत्पादनव्यये न्यूनता भविष्यति। अनेन १५ सहस्राधिकाः कृषकाः लाभान्विताः भविष्यन्ति।
मन्त्रिणा सिंहेन कथितं यत् योगिसर्वकारः कृषकाणाम् आयायाः, हितस्य सम्मानस्य च सर्वोच्चप्राथमिकतां प्रददाति। त्रयाणामपि योजनानां कार्यान्वयनं पोर्टलस्य माध्यमेन पारदर्शितया सुगमतया च भविष्यति, येन आलूक उत्पादककृषकेभ्यः विपणिमूल्ये न्यूनता, भण्डारणव्ययः तथा गुणवत्तापूर्णबीजस्य व्ययः इति त्रिषु स्तरिषु प्रत्यक्षः आर्थिकलाभः प्राप्स्यते।----------
Hindusthan Samachar / Dheeraj Maithani