हस्तकरघा-वस्त्राणां प्रोत्साहनेन कुविन्देभ्यः विपणिः प्राप्स्यते, स्वदेशी-उत्पादैः वर्धिष्यते आत्मनिर्भरता - मन्त्री राकेशसचानः
कानपुरम्, १६ अगस्तमासः (हि.स.)। हस्तकरघ-उद्योगः अस्माकं समृद्ध-परम्परया सह बहुसंख्याकानां कुविन्द-परिवाराणां जीविकोपार्जनेन च सम्बद्धः अस्ति। स्थानीयानां हस्तकरघ-उत्पादानाम् स्वीकरणेन ‘स्थानीयाय स्वरः’ इत्यस्य भावनायाः सुदृढीकरणेन च भारतीय-वस्त्रोद
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, १६ अगस्तमासः (हि.स.)। हस्तकरघ-उद्योगः अस्माकं समृद्ध-परम्परया सह बहुसंख्याकानां कुविन्द-परिवाराणां जीविकोपार्जनेन च सम्बद्धः अस्ति। स्थानीयानां हस्तकरघ-उत्पादानाम् स्वीकरणेन ‘स्थानीयाय स्वरः’ इत्यस्य भावनायाः सुदृढीकरणेन च भारतीय-वस्त्रोद्योगाय वैश्विकस्तरे नूतनां प्रतिष्ठां प्रदातुं शक्यते। स्वदेशी-उत्पादानां अधिकाधिकप्रयोगः आत्मनिर्भरभारतस्य सङ्कल्पं सुदृढं करिष्यति। एताः उक्तीः रविवासरे राष्ट्रीय-हस्तकरघा-दिवसस्य उपलक्ष्ये आयोजिते हस्तकरघा-वस्त्र-फैशन-प्रदर्शने उत्तरप्रदेशस्य हस्तकरघा-वस्त्रोद्योग-खादी-ग्रामोद्योग-रेशम-उद्योगमन्त्री राकेशसचानः उक्तवान्।

नगरनिगमस्य प्रमिला-सभागारे आयोजितस्य फैशन-प्रदर्शनस्य उद्घाटनं मन्त्री राकेशसचानः महापौरः प्रमिला-पाण्डेयश्च कृतवन्तौ। कार्यक्रमस्य उद्देश्यम् आसीत् यत् प्रदेशे निर्मितानां हस्तकरघ-वस्त्राणां प्रोत्साहनेन सह तेषां विपणनस्य निर्यातस्य च सम्भावनाः वर्धेरन्।

फैशन-प्रदर्शने प्रदेशस्य पुरस्कृतैः कुविन्दै: निर्मितानि हस्तकरघा-वस्त्राणि, खादी-वस्त्राणि, रेशम-वस्त्राणि च प्रदर्शितानि। पारम्परिकवयनस्य आधुनिकरचनायाश्च सङ्गमेन निर्मितानि परिधानानि धारयित्वा प्रतिरूपकैः रैम्प-प्रदर्शनं कृतम्। सञ्जनावर्मा, प्रज्ञासिंहः, यशवितासिंहः, सञ्चितावर्मा, नैनागुप्ता, शृङ्खलासिंहः, रियाश्रीवास्तवः, वंशिकासिंहः, मुस्कान-सिंहः, शुभम्मिश्रः, तारिकअहमदः च सहभागितां कृतवन्तः।

रचनाकारः कुन्तानिलदासः प्रदर्शितानां परिधानानां रचनायाः, बनावटस्य, विशेषतानां च विषये सूचनां दत्तवान्। महापौरः प्रमिलापाण्डेयः उक्तवती यत् विदेशीयवस्त्राणाम् आकर्षणात् बहिः निर्गत्य स्वदेशीवस्त्रेभ्यः प्राथमिकता प्रदातुं आवश्यकता अस्ति। हस्तकरघः देशस्य प्राचीनं गौरवशाली च धरोहरम् अस्ति। वयनकाराणां उत्पादेभ्यः विपण्याः समाजस्य च सहयोगः प्राप्यते चेत् एषा परम्परा संरक्षितुं शक्यते। सा उक्तवती यत् कानपुरे हस्तकरघा-उत्पादानां समृद्धा परम्परा अस्ति।

कार्यक्रमे संयुक्तायुक्तः हस्तकरघ-वस्त्रोद्योगः पीसीठाकुरः, उपयुक्तः मनोज-कान्तगर्गः, उत्तरप्रदेशस्य खादी-ग्रामोद्योग-महासङ्घस्य अध्यक्षः सुरेशगुप्तः इत्यादयः विभागीयाः अधिकारिणः, वयनकाराः, वस्त्ररचनाकाराः गणमान्यनागरिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan