सैन्याभ्यासे ‘मैत्री’-इत्यस्मिन् भागं ग्रहीतुं भारतीयसेनायाः दलं थाईलैण्डं प्रति प्रस्थितम्
थाईलैण्डस्य सुरतथानी-स्थिते विभावादी-रङ्गसित-शिविरे १८ तः ३१ अगस्त-मासपर्यन्तं भविष्यति सैन्याभ्यासः नवदिल्ली, १७ अगस्तमासः (हि.स.)। भारत-थाईलैण्डदेशयोः संयुक्त-सैन्याभ्यासस्य ‘मैत्री’-इत्यस्य पञ्चदशे संस्करणे भागं ग्रहीतुं भारतीयसेनायाः दलं सोमवा
भारतीय सेना की टुकड़ी थाईलैंड रवाना


थाईलैण्डस्य सुरतथानी-स्थिते विभावादी-रङ्गसित-शिविरे १८ तः ३१ अगस्त-मासपर्यन्तं भविष्यति सैन्याभ्यासः

नवदिल्ली, १७ अगस्तमासः (हि.स.)। भारत-थाईलैण्डदेशयोः संयुक्त-सैन्याभ्यासस्य ‘मैत्री’-इत्यस्य पञ्चदशे संस्करणे भागं ग्रहीतुं भारतीयसेनायाः दलं सोमवासरे थाईलैण्डं प्रति प्रस्थितम्। अयं सैन्याभ्यासः संयुक्तराष्ट्रसङ्घस्य अधिकारपत्रस्य सप्तमाध्यायस्य अन्तर्गतं वनेषु नगरीयेषु च वातावरणेषु उग्रवादस्य आतङ्कवादस्य च निवारणाय संयुक्त-सैन्यकार्याणां सम्पादनार्थं उभयोः देशयोः क्षमतां वर्धयिष्यति।

रक्षामन्त्रालयस्य अनुसारम् अयं सैन्याभ्यासः अगस्तमासस्य १८ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं थाईलैण्डस्य सुरत-थानी-स्थिते विभावादी-रङ्गसित्-शिविरे भविष्यति। अस्य सैन्याभ्यासस्य पूर्वसंस्करणं २०२५ तमस्य वर्षस्य सितम्बरमासे मेघालयस्य उमरोई-नगरे आयोजितम् आसीत्। भारतीयसेनायाः थाई-राजकीयसेनायाश्च दलेषु पञ्चा-शीतिः-पञ्चाशीतिः सैनिकाः सम्मिलिताः सन्ति। भारतीयसेनायाः दले मुख्यतः ९ गोरखा-राइफल्स-सैन्यदलस्य सैनिकाः सन्ति, यदा तु थाईसेनायाः दले पञ्चमविभागस्य पञ्चविंशति-इन्फैन्ट्री-ब्रिगेडस्य तृतीयबटालियनस्य सैनिकाः सम्मिलिताः सन्ति। अस्मिन् सैन्याभ्यासे निर्माणी-स्तरीयं संयुक्तप्रशिक्षणं भविष्यति, यत् वनप्रदेशेषु अर्धनगरीयेषु च क्षेत्रेषु अभियानसञ्चालने केन्द्रितं भविष्यति।

‘मैत्री’-सैन्याभ्यासस्य उद्देश्यम् भारत-थाईलैण्डदेशयोः मध्ये सैन्यसहयोगस्य प्रोत्साहनम् अस्ति। अस्मिन् प्रशिक्षणे क्षेत्राभ्यासः, युद्धसम्बद्धाः चर्चाः, व्याख्यानानि, प्रदर्शनानि तथा च समापन-सत्यापनाभ्यासश्च भविष्यन्ति। सैन्यदलानि परिचालनानुभवानाम् आदान-प्रदानमपि करिष्यन्ति तथा च संयुक्तसैन्यकार्येषु प्रयुज्यमानानाम् आधुनिकानाम् उप-करणानां प्रौद्योगिकीनां च प्रदर्शनं करिष्यन्ति।

२००६ तमे वर्षे प्रारब्धः ‘मैत्री’-सैन्याभ्यासः भारत-थाईलैण्डयोः मध्ये सैन्यसहयोगं सुदृढं कर्तुं तथा च श्रेष्ठकार्यप्रणालीनाम् आदान-प्रदानाय महत्त्वपूर्णं मञ्चम् अस्ति। अयं सैन्याभ्यासः उभयोः सेनयोः मध्ये परस्पर-सञ्चालनक्षमतां, परस्परावबोधनं सद्भावनां च वर्धयति, येन उभयोः देशयोः दीर्घकालिकाः द्विपक्षीयसम्बन्धाः अधिकं सुदृढाः भवन्ति।

Hindusthan Samachar / Divya Ranjan