Enter your Email Address to subscribe to our newsletters

रांची, 17 अगस्तमासः (हि.स.)।
कांकेपिठोरियास्थिते ब्रह्माकुमारीसंस्थाने नागपञ्चम्याः पर्व सोमवासरे अत्यन्तश्रद्धाभावेन समाचरितम्। अस्मिन् अवसरे विशेषस्य आध्यात्मिककार्यक्रमस्य, पूजनस्य, नागदेवतायाः भव्यशृङ्गारस्य तथा शृङ्गारारत्याः च आयोजनं कृतम्। अस्मिन् कार्यक्रमे स्थानीयाः श्रद्धालवः गणमान्याः नागरिकाः च बहुसंख्यया भागं गृहीतवन्तः।
कार्यक्रमस्य प्रारम्भः बीके राजमतीभगिन्या नागकथायाः पर्वणः आध्यात्मिकरहस्यानां च वर्णनेन कृतः। तया उक्तं यत् नागपञ्चमी केवलं नागपूजनस्य पर्व नास्ति, अपितु आत्मनः आन्तरिकशुद्धेः रूपान्तरणस्य च सन्देशमपि ददाति। मनुष्यस्य अन्तः स्थिताः कामः, क्रोधः, लोभः, मोहः अहङ्कारश्च विषसदृशाः विकाराः सन्ति। परमात्मनः शिवस्य स्मरणेन ज्ञानेन च एतेषां विकाराणां परित्यागं कृत्वा जीवनं पवित्रतया शान्त्या च परिपूर्णं करणमेव वास्तविकं नागपञ्चमीपर्व इति तया प्रतिपादितम्।
अवसरे मुख्ययजमानेन आशुतोषद्विवेदिना वैदिकमन्त्राणां सस्वरपाठस्य मध्ये विधिविधानपूर्वकं नागदेवतायाः पूजनं कृतम्। कार्यक्रमस्य समापनावसरे महाप्रसादस्य वितरणं कृतम्। अस्मिन् अवसरे उर्मिलादेवी, लीलादेवी, कवितासिंहः सहिताः बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani