जम्मू-कश्मीरस्य पवित्रा वृद्ध-अमरनाथयात्रा प्रारब्धा, दृढसुरक्षामध्ये यात्रिणां समूह: प्रस्थितः, उपराज्यपालः सिन्हा ध्वजं प्रदर्श्य प्रेषितवान्
जम्मू, १७ अगस्तमासः (हि.स.)। जम्मू-कश्मीरस्य पुंछजनपदस्य लोरन-उपत्यकायां पुलस्त्यनद्याः तटे स्थितस्य हिमालयीयतीर्थस्थलस्य वृद्ध-अमर-नाथस्य वार्षिकयात्रा अद्य दृढसुरक्षा-व्यवस्थायाः मध्ये प्रारब्धा। उपराज्यपालः मनोजसिन्हा प्रातः प्रायः सार्धषड्वादने
73b0fce069a7828d99bfb95d835c3cd5_1564042793.jpg


जम्मू, १७ अगस्तमासः (हि.स.)। जम्मू-कश्मीरस्य पुंछजनपदस्य लोरन-उपत्यकायां पुलस्त्यनद्याः तटे स्थितस्य हिमालयीयतीर्थस्थलस्य वृद्ध-अमर-नाथस्य वार्षिकयात्रा अद्य दृढसुरक्षा-व्यवस्थायाः मध्ये प्रारब्धा। उपराज्यपालः मनोजसिन्हा प्रातः प्रायः सार्धषड्वादने स्थानीयभगवतीनगरस्थितात् आधार-शिविरात् श्रद्धालूनां प्रथमं समूहं ध्वजं प्रदर्श्य प्रेषितवान्। इदं प्राचीनं पौराणिकं च मन्दिरं समुद्रतलात् प्रायः ४,६०० पादमितोन्नतौ स्थितम् अस्ति। जम्मू-नगरात् अस्य दूरी प्रायः २९० किलोमीटर अस्ति।

अधिकारिभिः उक्तं यत् जम्मू-राजौरी-पुंछ-राजमार्गे सुरक्षाबलानां नियुक्तिः वर्धिता अस्ति। भगवतीनगरस्य आधारशिविरे तस्य आसपासे च सुरक्षा अपि सुदृढीकृता अस्ति। ह्यः पुंछनगरे विशेषकार्यदलेन दशनामी-अखाड़ामन्दिरे शङ्करनगरे च अन्वेषणाभियानं चालितम्। अस्मिन् समये गृहाणां परीक्षणेन सह तत्र निवसतां जनानां भाटकवासिनां च विवरणम् अपि सङ्कलितम्। अधिकारिभिः जनानाम् आह्वानं कृतं यत् ते कञ्चिदपि अपरिचितं जनं स्वगृहे निवासाय स्थानं न दद्युः तथा च कस्यापि संदिग्धस्य गतिविधेः अथवा व्यक्तेः विषये तत्क्षणं आरक्षकविभागाय आपत्कालीन-सहायताकेन्द्रस्य माध्यमेन सूचनां दद्युः।

द्वादशदिनपर्यन्तं चलिष्यमाणा वृद्ध-अमरनाथयात्रा अगस्तमासस्य २८ दिनाङ्के रक्षाबन्धनस्य अवसरे सम्पन्ना भविष्यति। समूहं प्रेषयितुं एकदिनात् पूर्वम् उपराज्यपालः मनोजसिन्हा ‘एक्स’-मध्ये उक्तवान्— “श्रीबाबा-वृद्ध-अमरनाथ-यात्रायाः पावने अवसरे अद्य अहं जम्मूनगरे उद्घाटनसमारोहे सम्बोधितवान्। सत्यस्य, एकतायाः, आध्यात्मिकशक्तेः च शाश्वतं प्रतीकं भगवान् शिवं नमनं करोमि। एषा तीर्थयात्रा अस्मान् धर्मस्य करुणायाः च मार्गे चलितुं तथा राष्ट्रियैक्यं सुदृढं कर्तुं प्रेरयतु। हर-हर महादेव।”

एषा पवित्रयात्रा पुंछजनपदस्य मण्डी-तहसीलस्य राजपुराग्रामे स्थितं शिवमन्दिरं प्रति गच्छति। मान्यता अस्ति यत् भगवता शिवेन अमरनाथगुहायां पार्वतीदेव्यै या अमरकथा श्राविता, तस्याः आरम्भः अत्रैव अभवत्। एतद् विश्वास्यते यत् वृद्ध-अमरनाथस्य दर्शनं विना अमरनाथयात्रा पूर्णा न भवति। सम्पूर्णे यात्रामार्गे श्रद्धालूनां समूह: आरक्षकसुरक्षायां अग्रे गमिष्यति। अस्याः कृते अतिरिक्ताः केन्द्रीयसशस्त्र-आरक्षकबलस्य सैनिका: नियुक्ताः सन्ति। जनपदप्रशासनेन स्थानीयनिकायैश्च मार्गे जलरोधक-वितानानां, सामुदायिक-भोजनालयस्य, वाहनस्थलस्य, स्वास्थ्य-केन्द्रस्य च व्यवस्था कृता अस्ति।

पुंछजनपदप्रशासनेन देशस्य विभिन्नेभ्यः भागेभ्यः आगच्छतां तीर्थयात्रिणां कृते पूर्व-पञ्जीकरणस्य सुविधा प्रदातुं विशेषं पटलं प्रारब्धम् अस्ति। वृद्ध-अमरनाथमन्दिरं पुंछनगरात् प्रायः २३ किलोमीटर दूरे अस्ति। पुंछ-उपत्यका पाकिस्तानस्य सीमया त्रिषु दिशासु परिवेष्टिता अस्ति। हिन्दूनां धार्मिकस्थलं भवितुम् अपि अस्य मन्दिरस्य पार्श्वे किमपि हिन्दुगृहं नास्ति। अस्य मन्दिरस्य संरक्षणं परितः निवसन्तः मुस्लिमपरिवाराः सीमासुरक्षाबलस्य सैनिकाश्च कुर्वन्ति। इदं मन्दिरं पीरपञ्जालपर्वतशृङ्खलायाः पाददेशे स्थितम् अस्ति। मन्दिरस्य आसपासस्थाः पर्वताः सम्पूर्णवर्षं हिमस्य श्वेतावरणेन आच्छादिताः भवन्ति। मन्दिरस्य एकस्मिन् पार्श्वे लोरन-नदी अपि प्रवहति, या ‘पुलस्त्यनदी’ इत्यपि कथ्यते। पुंछनगरस्य प्राचीनं नाम पुलस्त्यम् एव आसीत्।

त्रयोदश्यां तिथौ पुंछनगरस्य दशनामी-अखाड़ातः अस्य धर्मस्थलस्य कृते ‘छड़ी मुबारक’-यात्रा प्रारभते। आरक्षकदलानि अस्याः रजतनिर्मितायाः पवित्रछड्याः पूजनानन्तरं गार्ड्-ऑफ्-ऑनर् प्रदाय तस्याः आदरं सम्मानं च कुर्वन्ति। अस्यां यात्रायां सहस्रशः साधवः श्रद्धालवश्च सम्मिलिताः भवन्ति। वृद्ध-अमरनाथ-मन्दिरस्य सुरक्षायै नियुक्तानां सीमासुरक्षाबलस्य सैनिकानां उत्साह-वर्धनाय प्रतिवर्षं देहलीतः बाबा-वृद्ध-अमरनाथयात्रासङ्घस्य समूह: अत्र आगच्छति। समूहेन सह आगताः महिलाः सैनिकानां हस्तेषु रक्षासूत्रं बध्नन्ति तथा तेषां दीर्घायुषः कामनां कुर्वन्ति।

Hindusthan Samachar / Divya Ranjan