Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशं देशस्य प्रमुख-औद्योगिक-केन्द्ररूपेण स्थापयितुं लक्ष्यं वर्तते : मुख्यमन्त्री डॉ. यादवः
भोपालम्, १७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे नवदिली राष्ट्रीय-औद्योगिक-गलियारा-विकास-क्रियान्वयन-न्यासस्य तृतीयस्य शीर्ष-निरीक्षणप्राधिकरणस्य सभायां भागं ग्रहीष्यति। अस्याः सभायाः कृते सः प्रातः भोपालस्य राजाभोज-विमानस्थानकात् नवदिल्ली इत्यत्र प्रस्थितवान्।
दिल्ली प्रति प्रस्थानात् पूर्वं मुख्यमन्त्री डॉ. यादवः माध्यमप्रतिनिधिभिः सह वार्तालापे उक्तवान् यत् मध्यप्रदेशं देशस्य प्रमुख-औद्योगिककेन्द्ररूपेण स्थापयितुं तेषां लक्ष्यं वर्तते। सभायां प्रदेशं देशस्य प्रमुख-औद्योगिककेन्द्ररूपेण स्थापयितुं सञ्चालितानां गतिविधीनां विषये चर्चा भविष्यति। अस्याः अन्तर्गतं दिल्ली-नागपुर-औद्योगिकगलियारे, भारत-औद्योगिक-विकासयोजनायां, प्रदेशे द्रुत-मार्गाधारित-औद्योगिकविकास-योजनायां तथा च रसद-अवसंरचनायाः सुदृढी-करणस्य कार्ययोजनायां विचार-विमर्शः भविष्यति।
तेन सूचितं यत् राष्ट्रिय-औद्योगिक-गलियारा-विकास-क्रियान्वयन-न्यासस्य तृतीया शीर्षनिरीक्षणप्राधिकरण-सभा केन्द्रीयवित्तमन्त्रिण्याः निर्मला सीता-रमणस्य अध्यक्षतायां अद्य सोमवासरे नवदिली इत्यत्र अशोक-होटल इत्यस्मिन् भविष्यति।
सभायां केन्द्रीय-वाणिज्योद्योगमन्त्री पीयूषगोयलः, रेलमन्त्री अश्विनीवैष्णवः, केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी, केन्द्रीय-पत्तन-पोत-परिवहन-जलमार्गमन्त्री सर्वानन्द-सोनोवालः, नीति-आयोगस्य पदाधि-कारिणः तथा च विभिन्नराज्यानां मुख्यमन्त्रिणः भागं ग्रहीष्यन्ति।
हिन्दुस्थान समाचार / Divya Ranjan