Enter your Email Address to subscribe to our newsletters

आगरमालवा, 17 अगस्तमासः (हि.स.)। मध्यप्रदेशमानवाधिकारायोगस्य अध्यक्षः डॉ. अवधेशप्रतापसिंहः सोमवासरे स्वस्य द्विदिवसीयप्रवासस्य कृते आगरमालवाजनपदस्य सर्किटहाउस इति अतिथिगृहे आगतवान्। ततः सः जनपदस्य नलखेडास्थिते विश्वप्रसिद्धे पीताम्बरासर्वसिद्धपीठे माँ बगलामुखीमन्दिरे गतवान्। तत्र जनपदस्य कलेक्टरः डॉ. शेरसिंहमीनाः तथा पुलिस अधीक्षकः दिलीपकुमारसोनी च पुष्पगुच्छप्रदानेन डॉ. सिंहस्य स्वागतं कृतवन्तौ।
तदनन्तरं सः प्रदेशस्य जनपदस्य च सुखसमृद्धिकामनया मन्दिरे भगवत्याः बगलामुख्याः दर्शनं पूजनं च कृतवान्। अस्मिन् अवसरे पुरोहितैः वैदिकमन्त्राणां सस्वरपाठेन विधिविधानपूर्वकं हवनं सम्पादितम्।
अस्मिन् अवसरे सुस्नेरस्य उपखण्डदण्डाधिकारी श्रीमती देवकुँवरसोलंकी, उपखण्डपुलिसाधिकारी देवनारायणयादवः सहिताः अन्ये प्रशासनिकाः पुलिसविभागीयाः च अधिकारीणः उपस्थिताः आसन्। अधिकारिभिः मन्दिरस्य सुरक्षाव्यवस्थायाः श्रद्धालूनां कृते व्यवस्थापितानां सुविधानां च निरीक्षणमपि कृतम्।
Hindusthan Samachar / Dheeraj Maithani