मध्यप्रदेशस्य उज्जयिन्यां नागपञ्चम्यां मध्यरात्रौ उद्घाटिता: नागचन्द्रेश्वरमन्दिरस्य कपाटा:, निरन्तरं २४ होराः भविष्यति दर्शनम्
उज्जयिनी, १७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थितस्य विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवत: महाकालेश्वरमन्दिरस्य तृतीयतले स्थितस्य नागचन्द्रेश्वरमन्दिरस्य कपाटा: नागपञ्चम्यां रविवासरे मध्यरात्रौ १२ वादने उद्घाटिता:। कपाटोद्घाटनानन्तर
उज्जैन में मध्य रात्रि को हुई भगवान नागचंद्रेश्वर की प्रथम पूजा


उज्जयिनी, १७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थितस्य विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवत: महाकालेश्वरमन्दिरस्य तृतीयतले स्थितस्य नागचन्द्रेश्वरमन्दिरस्य कपाटा: नागपञ्चम्यां रविवासरे मध्यरात्रौ १२ वादने उद्घाटिता:। कपाटोद्घाटनानन्तरमेव देशस्य विभिन्नभागेभ्यः आगतैः श्रद्धालुभिः भगवत: नागचन्द्रेश्वरस्य दर्शनम् आरब्धम्। दर्शनस्य क्रमः सोमवासरे मध्यरात्रौ १२ वादनपर्यन्तं अर्थात् २४ होराः यावत् निरन्तरं प्रवर्तिष्यते।

उल्लेखनीयं यत् महाकालेश्वरमन्दिरस्य तृतीयतले स्थितस्य अस्य मन्दिरस्य कपाटा: वर्षे केवलम् एकवारं नागपञ्चम्यां २४ होराभ्यः उद्घाट्यन्ते। रविवासरे मध्यरात्रौ मन्दिरस्य कपाटोद्घाटनात् प्रायः अर्धहोरापूर्वं रात्रौ ११:३० वादने प्रथमपूजनस्य प्रक्रिया प्रारब्धा। मध्यरात्रौ कपाटोद्घाटनानन्तरं श्रीपञ्चायती-महा-निर्वाणी-अखाडा इत्यस्य महन्तेन विनीतगिरि-महाराजेन भगवत: नागचन्द्रे-श्वरस्य पूजनम् अभिषेकश्च कृतः। अस्मिन् समये महाकालमन्दिर-प्रबन्धसमितेः प्रशासनस्य च अधिकारिणः उपस्थिताः आसन्। प्रथमपूजनस्य अनन्तरं सामान्यश्रद्धालूनां कृते दर्शनस्य क्रमः प्रारब्धः।

भगवान् नागचन्द्रेश्वरस्य मन्दिरं महाकालमन्दिरस्य तृतीयतले स्थितम् अस्ति। नागपञ्चमीं विहाय सम्पूर्णे वर्षे अत्र श्रद्धालूनां कृते कपाटा: पिहिता: भवन्ति। अतः नागपञ्चम्यां दर्शनार्थं देशस्य विभिन्नभागेभ्यः श्रद्धालवः उज्जयिनीं प्राप्नुवन्ति। अस्मिन् वर्षे नागपञ्चम्याः श्रावणस्य तृतीयसोमवासरस्य च एकस्मिन् दिने आगमनात् महाकाल-मन्दिरे श्रद्धालूनां सङ्ख्या अधिका भवितुं सम्भावना अस्ति।

त्रिवारं भविष्यति विशेषपूजा

नागपञ्चम्यां भगवत: नागचन्द्रेश्वरस्य त्रिकालपूजनस्य परम्परा अस्ति। प्रथमपूजा रविवासरे मध्यरात्रौ कपाटोद्घाटनानन्तरं सम्पन्ना। द्वितीया विशेषपूजा सोमवासरे मध्याह्ने १२ वादने श्रीपञ्चायती-महानिर्वाणी-अखाडा इत्यस्य पक्षतः करिष्यते। सायंकाले भगवत: महाकालस्य सन्ध्यारार्तिक्या: अनन्तरं महाकालेश्वर-मन्दिरस्य पूजकैः पुरोहितैश्च भगवत: नागचन्द्रेश्वरस्य विशेषपूजार्चना करिष्यते।

नागचन्द्रेश्वरमन्दिरे सामान्यदर्शनस्य प्रवेशव्यवस्था

नागचन्द्रेश्वरमन्दिरे सामान्यदर्शनार्थं श्रद्धालूनां प्रवेशः कर्कराज-पार्किङ्ग-स्थले स्थितेन प्रवेशद्वारेण निर्धारितः अस्ति। श्रद्धालवः कर्कराजतः प्रवेशं कृत्वा भीलसमाज-धर्मशाला, गोण्ड-मोहल्ला, चारधाम, हरसिद्धि-चौराहं तथा बडा-गणेशं च अतिक्रम्य प्रवेशद्वार-संख्यायाः ४ द्वारा मन्दिरपरिसरे प्रवेक्ष्यन्ति। ततः विश्रामधाम-मार्गेण श्रीनागचन्द्रेश्वर-भगवतः दर्शनं कृत्वा प्रीपेड्-बूथ-मार्गेण बहिः निर्गमिष्यन्ति। निर्गमनानन्तरं श्रद्धालवः २४ स्तम्भ-मार्गेण पुनः कर्कराजस्य दिशं गमिष्यन्ति।

शीघ्रदर्शनस्य प्रवेशव्यवस्था

शीघ्रदर्शनार्थं श्रद्धालूनां प्रवेशः हरसिद्धि-पालस्य दिशि निर्धारितः अस्ति। श्रद्धालवः बडा-गणेश-मार्गं गत्वा प्रवेशद्वार-संख्यायाः ५ द्वारा प्रवेक्ष्यन्ति तथा विश्रामधाममार्गेण श्रीनागचन्द्रेश्वरभगवतः दर्शनं करिष्यन्ति। दर्शनस्य अनन्तरं प्रीपेड्-बूथ-मार्गेण निर्गत्य २४ खम्बा-मार्गेण पुनः हरसिद्धि-पालस्य दिशं गमिष्यन्ति।

Hindusthan Samachar / Divya Ranjan