Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरलामहोदयः सोम-वासरे अमरक्रान्तिकारिणः मदन-लालढीङ्गरस्य बलिदानदिवसे तं प्रति भावपूर्णां श्रद्धाञ्जलिं प्रदत्तवान्।
बिरलामहोदयेन ‘एक्स’-मध्ये लिखितम्— “भारतस्य स्वातन्त्र्यार्थं स्वप्राणानां सर्वोच्चं बलिदानं प्रदत्तवान् मदनलालढीङ्गरस्य जीवनम् अदम्यसाहसस्य, अटूट-राष्ट्रभक्तेः, त्यागस्य च प्रेरणादायिनी गाथा अस्ति। समृद्धे परिवारे जन्म प्राप्तवान् अपि सः सुखसुविधापूर्णं जीवनं त्यक्त्वा देशस्य स्वातन्त्र्यं स्वस्य सर्वोच्चं ध्येयं कृतवान्।”
सः उक्तवान् यत् मदनलालढीङ्गरस्य बलिदानम् तस्मिन् काले युवकेषु स्वातन्त्र्यस्य, स्वाभिमानस्य, राष्ट्रप्रेम्णः च भावनां अधिकं प्रखरं कर्तुं प्रेरणादायकम् अभवत्। तस्य साहसं, त्यागः, दृढसङ्कल्पश्च अद्यापि युवभ्यः देशप्रेमस्य प्रेरणां ददाति।
उल्लेखनीयम् अस्ति यत् भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे १७ अगस्तमासस्य दिवसः विशेषमहत्त्वं वहति। एषः स एव दिवसः यस्मिन् महान् क्रान्तिकारी मदनलालढीङ्गरः देशस्य स्वातन्त्र्यार्थं स्वप्राणान् न्यवेदयत्। तस्य बलिदानम् भारतीयस्वातन्त्र्य-आन्दोलनस्य तेषु गौरवशालीषु अध्यायेषु अन्तर्भवति, ये आगामिपीढीभ्यः देशस्य कृते त्यागस्य साहसस्य च प्रेरणां ददति।
मदनलालढीङ्गरस्य जन्म १८८३ तमस्य वर्षस्य सितम्बरमासस्य १८ दिनाङ्के अमृतसरे प्रतिष्ठिते परिवारे अभवत्। उच्चशिक्षाप्राप्त्यर्थं सः आङ्ग्लदेशं गतवान्, यत्र तस्य सम्पर्कः भारतीयराष्ट्रवादीविचारैः अभवत्। तस्मिन् काले विदेशे निवसन्तोऽपि बहवः भारतीययुवकाः ब्रिटिशशासनस्य विरुद्धं स्वातन्त्र्य-आन्दोलनं प्रवर्धयन्तः आसन्। ढीङ्गरः अपि एतया विचारधारया प्रभावितः अभवत् तथा च भारतस्य दासत्वस्य विरुद्धं सङ्घर्षस्य मार्गं स्वीकृतवान्।
१९०९ तमस्य वर्षस्य जुलाईमासस्य १ दिनाङ्के लण्डननगरे आयोजिते एकस्मिन् कार्यक्रमे ढीङ्गरेण ब्रिटिशाधिकारी सर् विलियम् हटन कर्जन वायली इत्यस्य गोलिकाप्रहारेण हत्या कृता। अनेन घटनाक्रमेण ब्रिटेनसहितं सम्पूर्णस्य विश्वस्य ध्यानम् भारतीयस्वातन्त्र्य-आन्दोलनस्य प्रति आकृष्टम्। सः गृहीतः, तस्य विरुद्धं न्यायालये अभियोगः चालितः, न्यायालयेन च तस्मै मृत्युदण्डः प्रदत्तः। १९०९ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के लण्डनस्थितायां पेन्टनविल् कारागारे मदनलालढीङ्गराय मृत्युदण्डः प्रदत्तः। सः अवनतः भूत्वा न, अपितु स्वदेशस्य कृते सर्वोच्चं बलिदानं दत्त्वा अमरः अभवत्।
/ अंशु गुप्ता