Enter your Email Address to subscribe to our newsletters

लखनऊम्, १७ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षस्य नितिननबीनस्य नेतृत्वे गठितायै नवीनायै दलाय शुभकामनाः अयच्छत्। तेन स्वकीयस्य सामाजिकमाध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन भाजपायाः राष्ट्रीयस्तरीयेषु विभिन्नेषु संघटनात्मकदायित्वेषु नियुक्तेभ्यः सर्वेभ्यः सम्मानितसदस्येभ्यः हार्दिक्यः शुभकामनाः प्रदत्ताः।
मुख्यमन्त्री लिखितवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः यशस्विनः मार्गदर्शनस्य राष्ट्रीयाध्यक्षस्य नितिननबीनस्य च नेतृत्वस्य अन्तर्गतं नवनियुक्ताः सर्वे पदाधिकारिणः स्वकीयेन अनुभवेन, परिश्रमेण संघटनकौशलेन च ‘राष्ट्रं प्रथमम्’ इति संकल्पं जनं जनं प्रति प्रापयन्तः संगठनाय नवीनां ऊर्जां नवीनं विस्तारं च प्रदास्यन्ति इति पूर्णः विश्वासः अस्ति।
मुख्यमन्त्रिणा नवनियुक्तेभ्यः पदाधिकारिभ्यः सफलस्य यशस्विनश्च कार्यकालस्य अनन्ताः मङ्गलकामनाः अपि प्रेषिताः।
हिन्दुस्थान समाचार / Divya Ranjan